________________
इत्येवं तावदेकान्तनित्यपक्षे विज्ञानादिकार्यायोगात् तदवगमाभावः, इति ।
नित्यानित्यं पुनः कथञ्चिदवस्थितत्वात् अनेकस्वभावत्वाज्जनयति 'विज्ञानादिकम्, इति अतोऽवगम्यते, इति ।
नित्यानित्यत्वं च वस्तुनो द्रव्यपर्यायोभयरूपत्वादनुवृत्तव्यावृत्ताकारसंवेदनग्राह्यत्वात्प्रत्यक्षसिद्धमेवः तथाहि-मृत्पिण्डशिवकस्थासकघटकपालादिष्वविशेषेण सर्वत्रानुवृत्तो मृदन्वयः संवेद्यते, प्रतिभेदं च पर्यायव्यावृत्तिः; तथा च-न यथाप्रतिभासं मृत्पिण्डे संवेदनम्, तथाप्रतिभासमेव शिवकादिषु, आकारभेदाद् । न च यथाप्रतिभासभेदं तद्विजातीयेषूदकदहन-पवनादिषु, तथाप्रतिभासभेदमेव शिवकादिषु, मृदन्वयानुभवात् । न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तुं युज्यते प्रतीतिविरोधात् । न च निराकारमेव संवेदनम्, अर्थान्तरस्येव ततो विवक्षितार्थापरिच्छेदात् । न ह्याकारानुभवव्यतिरेकेणापरोऽर्थपरिच्छेदः, अतिप्रसङ्गात्, सर्वस्य सर्वार्थपरिच्छेतृत्वापत्तेश्च । ___न चेदं संवेदनं भ्रान्तम् इति शक्यते वक्तुम्, देशकालनरावस्थान्तरेऽविशेषण प्रवृत्तेः; तथाहि- देशान्तरे कालान्तरे नरान्तरेऽवस्थान्तरे च मृत्पिण्डादिषु च यथोक्तलक्षणमेव संवेदनं प्रवर्तते, न चार्थप्रभवमविसंवादिसंवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते; प्रतीतिबाधितत्वेन तेषामनादेयत्वात् । न चैकान्तनित्येषु यथोक्तसंवेदनसम्भवः, व्यावृत्ताकारनिबन्धस्य पर्यायभेदस्याभावात्, अन्यथैकान्तनित्यत्वानुपपत्तेः । . ___ तथैकान्तनश्वरेष्वपि नाधिकृतसंवेदनभावो युज्यते, अनुवृत्ताकारनिबन्धनस्य द्रव्यस्यान्वयाभावात् । तस्माद्यत एव नित्यम्, अत एवानित्यम्; द्रव्यात्मना नित्यत्वात्, तस्य चाभ्यन्तरीकृतपर्यायत्वात् । यत एव चानित्यमत एव नित्यम्, पर्यायात्मनाऽनित्यत्वात्, तस्य चाभ्यन्तरीकृतद्रव्यत्वात्, उभयरूपस्य चानुभवसिद्धत्वात्, एकान्तभिन्नस्य चोभयस्याभावात् । उक्तं च
द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क्व कदा केन किंरूपा दृष्टा मानेन केन वा ।। इत्यादि ।
१. अत्रानेकान्तवादजयपताकादौ मूलग्रन्थे वाणारस्यां मुद्रिते कथञ्चित्पाठभेदः
चिन्त्यश्च धीधनैः ।
DODARTAITAatmasamasoomsonाकाळ
पास