________________
ननु पर्यायनिवृत्तौ द्रव्यनिवृत्तिर्भवति किम् वा न ? इति । यदि भवति, अनित्यमेव तत्, निवृत्तिमत्त्वात्, पर्यायस्वात्मवत् । अथ न भवति, हन्त तर्हि द्रव्यपर्याययोर्भेदप्रसङ्गः; तथाहि- पर्यायेभ्योऽन्यद् द्रव्यम्, तनिवृत्तावपि तस्यानिवृत्तेः, पटादिव घटः, इति । ... एतदप्ययुक्तम्, कथञ्चिन्निवृत्तिभावात्, अस्य चानुभवसिद्धत्वात्; तथाहिघटपर्यायनिवृत्तौ कपालकालेऽपि तद्बुद्धया मृदनुभूयत एव, तदेकान्तनिवृत्तौ चोर्ध्वपर्यायवन्नानुभूयते । ऊर्ध्वादिनिवृत्तित एव भेदसिद्धिः; इति चेत् न, ऊर्ध्वादेरपि मृदः सर्वथा भेदासिद्धेः । न चासौ कपालमृद् घटमृदस्सर्वथाऽन्यैव, तदत्यन्तभेदे तस्या अमृत्त्वप्रसङ्गात्; यथा-उदकं न मृत्, ततोऽत्यन्तभेदात्, एवमसावपि स्याद्, अविशेषात्, इति ।
नन्वेतदमृत्स्वभावेभ्यो व्यावृत्तत्वात्कपालपदार्थस्य मृत्स्वभावता, नोदकस्य, तेभ्यो व्यावृत्त्यभावात्, इति । - एतदप्यसमीक्षिताभिधानम्, वस्तुनो विजातीयेतरव्यावृत्ताव्यावृत्तोभयस्वभावापत्तेः; तथाहि-अमृत्स्वभावेभ्य एवोदकादिभ्यो व्यावृत्तस्वभावः एवं सति कपालपदार्थः स्यात्, न तु. मृत्पिण्डशिवकघटादिभ्यो मृत्स्वभावेभ्योऽपि, तद्वयावृत्तावमृत्स्वभावत्वप्रसङ्गात् । यथैवाऽमृत्स्वभावेभ्यो व्यावृत्तः सन्मृत्स्वभावो भवति, एवं मृत्स्वभावेभ्योऽपि व्यावृत्तोऽमृत्स्वभावः स्यात्, न्यायानुमतमेतत् । अन्यथाऽमृत्स्वभावव्यावृत्तावपि मृत्स्वभावत्वानुपपत्तेः । - स्यादेतद्-वस्तुतः सजातीयेतरव्यावृत्तस्वरूपत्वात्, प्रतिनियतैकस्वभावत्वात्, सर्वभावानां यथोक्तदोषाभावः; तथाहि-यथाऽसौ कपालभाव उदकादिभ्यो व्यावृतः सन् मृत्स्वभावः, एवं घटादिभ्योऽपि, तस्यैकस्वभावत्वात्, तेनैव रूपेण व्यावृत्तत्वात्, इति । . ____एतदप्ययुक्तम्-अनुभवविरुद्धत्वात्; तथाहि-यदि स येनैव स्वभावेनामृत्स्वभावेभ्यो व्यावृत्तः, तेनैव मृत्स्वभावेभ्योऽपि, हन्त तर्हि-यथैवामृत्स्वभावभावैकान्तविभिन्नावभासहेतुः, तथैव मृत्स्वभावापेक्षयाऽपि स्यात्; न च भवति, मृत्स्वभावस्यानु
NRN LASTAIT AUTDASTITAMAMTANTRASTHAम
09
क काका