________________
भूयमानत्वात्, तस्यैव तथा परिणतिदर्शनात् । अनुभवस्य चापह्रोतुमशक्यत्वात्, 'अनुभवप्रमाणकाश्च सन्तोऽर्थाधिगमे' इति । प्रतिनियतैकस्वभावानुभवनिबन्धनाभ्युपगमे च पर्यायतः समानपरिणाम एवाभ्युपगत इति, न काचिनो बाधा । इत्यलं विस्तरेण । ___ तथैकान्तानिवृत्तौ [सत्यां] तद्विलक्षणबुद्ध्यभाव एव, इति न स्यात्कपाल बुद्धिः, विशेषाभावात्, तस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात्, इति । एतेन स्यादारेका-"नहि कूटस्थनित्यतया” इत्यादि यदाशङ्कयोक्तम्-“पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः” इत्यादि' तदपि प्रतिक्षिप्तमेवावगन्तव्यम्, कथञ्चिद्व्यतिरेकसिद्धेः, इति ।। तथा चोक्तम्
द्रव्यपर्याययोः सिद्धो भेदाभेदः प्रमाणतः । ...
संवेदनं यतः सर्वमन्वयव्यतिरेकवत् ।।१।। यञ्चोक्तम्-“एतेन सामान्यविशेषरूपमपि, प्रतिक्षिप्तमवगन्तव्यम्" इत्यादि, तदप्ययुक्तम्- सामान्यविशेषरूपस्य वस्तुनोऽनुभवसिद्धत्वात्; तथाहि-'घटो घट:' इति सामान्याकारा बुद्धिरुत्पद्यते, मार्तिकः, ताम्र, राजतः, इति विशेषाकारा च पटादिर्वा न भवति, इति ।
न चार्थसद्भावोऽर्थसद्भावादेव निश्चीयते, सर्वसत्त्वानां सर्वज्ञत्वप्रसङ्गात्, सर्वार्थानामेव सद्भावस्याविशेषात् । किं तर्हि ? अर्थविज्ञानसद्भावानिश्चयः । ज्ञानं च सामान्यविशेषाकारमेवोपजायते, इति । अतोऽनुभवसिद्धत्वात् सामान्यविशेषरूपं वस्तु, इति ।। .
न चायमनुभवो भ्रान्त इति युज्यते, घटादिसन्निधावविकलतदन्यकारणानां सर्वेषामेवाविशेषेणोपजायमानत्वात्, इति सिद्धं सर्वं वस्तु सामान्यविशेषात्मकम् इति ।
यञ्चोक्तम्-“एकं सामान्यमनेके विशेषाः” इत्यादि । तदप्ययुक्तम् अनभ्युपगमात् । न हि यथोक्तस्वभावं सामान्यमभ्युपगम्यतेऽस्माभिः, युक्तिरहितत्वात् । किन्त्वनेकधर्मात्मकस्य वस्तुनः समानपरिणामः सामान्यम्, इति; समानानां भावः सामान्यम्, इत्यन्वर्थयोगात् । समानत्वं च भेदाविनाभाव्येव । तदभावे च सर्वथैकत्वत:
ల
ల
ల
ల
ల ల
ల
ల డ డా డపుడు