________________
समानत्वानुपपत्तिः इति । समानपरिणाम एव समानबुद्धिशब्दद्वय-प्रवृत्तिनिमित्तम्, तेषामेवासमानपरिणामनिबन्धना विशेषबुद्धिः, इति । तथा चोक्तम्
वस्तुन एव समानः परिणामो यः स एव सामान्यम् ।
असमानस्तु विशेषो वस्त्वेकमनेकरूपं तु ।। · ततश्च-तद्यत एव सामान्यरूपम्, अत एव विशेषरूपम्, समानपरिणामस्यासमानपरिणामाविनाभूतत्वात्; यत एव च विशेषरूपम्, अत एव सामान्यरूपम्, असमानपरिणामस्यापि समानपरिणामाविनाभावात्, इति । न चानयोर्विरोधः, समानासमानपरिणामयोरुभयोरपि स्वस्वसंवेदनसिद्धत्वात्, स्वसंवेदनस्योभयरूपत्वात्, उभयरूपतायाश्च व्यवस्थितत्वात् ।
यञ्चोक्तम्-“सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः" इत्यादि, तदपि जिनमतानभिज्ञतासूचकमेवं । नहि "विषमोदकादिविशेषानन्तरम्, सर्वथैकस्वभावम्, एकम्, अनवयवम्, सामान्यम्" इत्यभिदधति जैनाः । न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकात्, इत्यादि । किं तर्हि ? समानपरिणामः स च भेदाविनाभूतत्वात्। न य एव विषादिभिन्नः, स एव मोदकादिभ्योऽपि, सर्वथा तदेकत्वे समानत्वायोगात् । . नन्वेतत्समानपरिणामस्यापि प्रतिविशेषमन्यत्वादसमानपरिणामवत्तद्भावानुपपत्तिः, इति । एतदप्ययुक्तम्, सत्यप्यन्यत्वे समानासमानपरिणामयोर्भिन्नस्वभावत्वात्; तथाहि- समानधिषणाध्वनिनिबन्धनस्वभावः समानपरिणामः, तथा विशिष्टबुद्ध्यभिधानजननस्वभावस्त्वितरः, इति । ___यथोक्तसंवेदनासंवेद्याभिधेयाभिधाना एव विषादयः, इति प्रतीतमेतत्; अन्यथा यथोक्तसंवेदनाद्यभावप्रसङ्गात् । अतो यद्यपि द्वयमष्युभयरूपम्, तथाहि-विषार्थी विष एव प्रवर्त्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणामाविनाभूतत्वात्। न तु मोदके, तत्समानपरिणामाविनाभावाभावात्तद्विशेषपरिणामस्य, इति । अतः
नयामतमNNNNNNNNNNNNNNeelkar LAUNCHOOTOOTDOODOOTDOODHATHO
U TDOOD