________________
प्रयासमात्रफला प्रवृत्तिनियमोच्छेदचोदना, इति । एतेन “विषे भक्षितेऽपि मोदको भक्षितः स्यात्" इत्याद्यपि प्रतिक्षिप्तमवमन्तव्यम्, तुल्ययोगक्षेमत्वात्, इति ।।
यञ्च परेणाप्युक्तम्-“सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः" इत्यादि, तदपि न विदुषां मनोरञ्जकमित्यपकर्णयितव्यम्, वस्तुतः प्रदत्तोत्तरत्वात्, इत्यलं विस्तरेण ।
यञ्चोक्तम्-“एवमभिलाप्यानभिलाप्यम्" इत्यादि, तदप्ययुक्तम्, अन्यथा व्यवहारोच्छेदप्रसङ्गात्, तथाहि-यद्येकान्तेनैवानभिलाप्यमभ्युपगम्यते, कथं तर्हि शब्दविशेषादर्थप्रतीत्यादिः ? दृश्यते च ‘अनलाद्यानय' इत्याद्युक्ते विनीतानां धूमध्वजादौ प्रवृत्तिः । एवमेकान्ताभिलाप्यत्वम्, अनलाचलादिशब्दोच्चारण वदनदाहपूरणादिप्रसङ्गानाङ्गीकर्तव्यम् । न चैवंवादिनः क्वचिदप्युपलभ्यन्ते, इत्यतो नेह यत्नः; इति । तस्माद्व्यवहारान्यथाऽनुपपत्तेरभिलाप्यानभिलाप्यम्, इति स्थितम् न चात्र विरोधबाधा, भिन्ननिमित्तत्वात्। तथाहि-अभिलाप्यधर्मकलापापेक्षया तदभिलाप्यम्, अनभिलाप्यधर्मकलापनिमित्तत्वापेक्षयाभिलाप्यम्, इति । धर्मधर्मिणोश्च कथञ्चिद्भेदः, इति प्रतिपादितम्, ततश्च तद्यत एवाभिलाप्यम्, अत एवानभिलाप्यम्; अभिलाप्यधर्मकलापनिमित्तापेक्षयैवाऽभिलाप्यत्वात्, अत एवं चाभिलाप्यम्, अभीलाप्यधर्माणां चानभिलाप्यधर्माणां चानभिलाप्यधर्माविनाभूतत्वात् । यत एव चानभिलाप्यम्, अनभिलाप्यधर्माणां चाभिलाप्यधर्माविनाभूतत्वात्, इति ।
नन्वेतद्यदि 'तदभिलाप्यानभिलाप्यधर्मकम्' एवं तमुभिलाप्यानां शब्देनाभिधीयमानत्वात्किमित्यकृतसङ्केतस्य पुरोऽवस्थितेऽपि वाच्ये शब्दान्न संप्रत्ययप्रवृत्ती भवतः इति । ..
अत्रोच्यते-तद् ज्ञानावरणकर्मक्षयोपशमाभावात्, तस्य च सङ्केताभिव्यङ्ग्यत्वात्; तथाहि- ज्ञस्वभावस्यात्मनो मिथ्यात्वादिजनितज्ञानावरणादिकर्ममलपटलाच्छादितस्वरूपस्य सङ्केततपश्चरणदानप्रतिपक्षभावनादिभिस्तदावरणकर्मक्षयोपशमक्षयावेवापद्येते, ततो विवक्षिताकारं संवेदनं प्रवर्तते; इति । अन्यथा तत्प्रवृत्त्यभावात्, तत्प्रथमतयैव सर्वत्रादृष्टसङ्केतानामर्भकाणां सङ्केतस्य कर्तुमशक्यत्वात्; तथाहि-न शब्दादप्यसङ्केतितात्तदर्थे प्रतिपत्तियुज्यते, तत्सङ्केतकरणे च तत्राप्ययमेव
नयामृतम्
TAITASTICICICIATRATIMeण्टकककककककर