SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ वृत्तान्तः, इत्यनवस्थाप्रसङ्गः । क्वचिदवस्थाने चास्मन्मतानुवाद एव, इत्यलं विस्तरेण । यदप्युक्तम्- “विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्तयभावप्रसङ्गः” इति, एतदपि सूक्ष्मेक्षिकया मुक्तिमार्गमनालोच्यैवोक्तम्, इति; उक्तवत्सत्त्वानित्यत्वादीनां विरोधित्वासिद्धेः; अन्यथा वस्त्वभावप्रसङ्गः ।। किञ्च-विरोधिधर्माध्यासितस्वरूपाभाव एव वस्तुन एकान्तवादिन एव मुक्तयभावप्रसङ्गः; तथाहि-यदि तदात्माऽङ्गनामणिकनकधनधान्यादिकमेकान्तेनैवानात्मकादिधर्मयुक्तं भावनालम्बनमिष्यते, हन्त ! तर्हि सर्वथाऽनात्मकत्वाद्भावकभाव्याभावात्तत्परिज्ञानोत्तरकालभाविभावनाभावतः कुतः कस्य वा मोहादिग्रहाणाम्, इति कथ्यतामिदम् ।। नन्वेतद्विरुद्धधर्माध्यासितस्वरूपत्वे सति वस्तुन एवाभावात्तन्निबन्धनव्यवहाराभावः; नहि शीतोष्णस्पर्शवदेकमस्ति, तयोविरोधात्, इति चेत् ? अत्रोच्यतेअथ कोऽयं विरोधः ? अन्यतराभावेऽन्यतराभावः, इति चेत् ? अस्त्वेतत्, किन्तु-शीतोष्णस्पर्शयोर्यो विरोधः, स किं स्वरूपसद्भावकृत एव ? उतैककालेऽसंभवेन ? आहोश्विदेकद्रव्यायोगेन ? किमेककालैकद्रव्याभावतः ? उतैककालैकद्रव्यैकप्रदेशासम्भवेन ? आहोश्विदभिन्नत्वनिमित्तत्वेन ? इति । • क़िञ्चातः ? . __ न तावत् ‘स्वरूपसद्भावकृतः' एव शीतोष्णस्पर्शयोविरोधः, नहि शीतस्पंशोऽनपेक्षितान्यनिमित्तः स्वात्मसद्भाव एवोष्णस्पर्शेन सह विरुध्यते, उष्णस्पशों वेतरेण; अन्यथा, त्रैलोक्येऽपि शीतोष्णस्पर्शाभावः स्यात्, एकस्य वा कस्यचिदवस्थानादन्यतरस्य; न चानयोर्जगति कदाचिदप्यसत्ता, सदैव वडवानलतुहिन-सद्भावात् । न 'चैककालासम्भवेन' शीतोष्णस्पर्शयोर्विरोधः; यतः-एकस्मिन्नपि काले तयोः सद्भाव उपलभ्यत एव, यथा शीता आपः पर्वते, तत्रैवोष्णोऽग्निरपि, इति । न 'चैकद्रव्यायोगेन' यतः-एकेनापि द्रव्येण तयोर्योगो ఎటు బడ బలులు బలపడ డ ల ఎ లు బడ త ం
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy