________________
भवत्येव, तथा च शीतकाले रात्रौ निरावरणे देशे पर्युषिते लोहभाजने शीतस्पर्श भवति, तत्रैव मध्याह्ने दिनकरप्रतप्ते उष्णः, इति न विरोधः । न चैककालैकद्रव्या भावतः' विरोधः; यतः-एकस्मिन्नेव काले एकस्मिन्नेव द्रव्ये तयोर्भाव एव; तथाहिधूपकडुत्थकस्थालकेऽग्निसम्बन्धे उष्णस्पर्शो भवति, तस्यैव तु गण्डके शीतः; इति, न च विरोधः । 'एककालैकद्रव्यैकप्रदेशासम्भवलक्षणविरोधः' इष्ट एव, एकप्रदेशस्यापरप्रदेशाभावेनावयवावयविभेदानुपपत्तेः, भिन्नधर्मत्वात्, भिन्नधर्मयोश्चैकत्वं विरुद्धमेव, अन्यथा, तद्भेदाभावप्रसङ्गात् ।
न चैवं सदसन्नित्यानित्यादिभेदानां भिन्नधर्मत्वम्, एकत्रैव भावात्; भावस्य च सतस्तत्स्वद्रव्यक्षेत्रकालभावरूपेण सद्वर्तते, परद्रव्यक्षेत्रकालभावरूपेण चासत्, इत्यादिना प्रतिपादितत्वात् । ततश्च नासम्भावनाविरोधेन नियमभाविनामपि विरोधकल्पना न्याय्या, अतिप्रसङ्गात् । नहि श्रावणत्वं विरुद्धमपिं घटादिसत्त्वेन, न पुनरसत्तयाऽपि विरुध्यते, तथोपलम्भाभावात् । अभिन्ननिमित्तत्वेनापि विरोधः सिद्ध एव । नहि यदेव शीतस्पर्शस्य निमित्तं. तदेवोष्णस्य, भेदाभावेन तत्सङ्करोपलब्धिप्रसङ्गात् । न च सदसदादिधर्माणामभिन्ननिमित्तम्, निमित्तभेदाभ्युपगमात्, न चैकस्मिन्निमित्तभेदो न युक्तः, एकान्तेन एकत्वासिद्धेः, धर्मर्मिरूपत्वात्, धर्मधर्मिणोश्च भेदाभेदस्य प्रतिपादितत्वात्; इत्यलं विस्तरेण । इति सिद्धमेकत्रैव वस्तुनि कालाद्यभेदेन सत्त्वासत्त्वनित्यानित्यत्वेत्यादिधर्मवृन्दम्, इति; अनया गत्या चास्याः सप्तभङ्गयाः स्याद्वादविचारचतुरत्वेन अनेकान्तविचारवर्द्धिनी इति विशेषणपदमपि सार्थकं बभूव । इति पूर्णः पञ्चमवृत्तार्थः ।।
नन्वत्र सप्तभङ्गयां सत्त्वासत्त्वयोरिव विशेषसामान्ययोरविनाभावो दर्शितः, स च कथं भवति ? इत्याह
विशेषसामान्यमयाः पदार्था
___ भवन्ति सर्वेऽप्यविशेषमेव । अर्थान्तरत्वं त्वनवस्थितेस्तयो
र्न स्यात्कदाचिज्जिनराजशासने ।।६।।
-
नयामृतम्
JASTHANTDASTDASTRATom
कामकाज