________________
व्याख्या-'विशेषसामान्यमयाः' इति-विशेषा विष्वाभाववन्तः, सामान्या विष्वगभाववन्तश्च भवन्ति, इति । एतावता प्रतिपदार्थं सामान्यविशेषयोरविष्वग्भावेनाव्यभिचारिसम्बन्धरूपाविनाभावात्सामानाधिकरण्यमुक्तम्; यत्र हि सामान्यम्, तत्रावश्यं विशेषस्य सत्त्वात्; यत्र च विशेषः, तत्राप्यवश्यं सामान्यस्य विद्यमानत्वात् । सामान्यविशेषयोश्च पदार्थस्वरूपत्वेन पदार्थानां तन्मयत्वं नाम ताभ्यामेकीभावापन्नत्वं चोक्तम्, इति; तथाहि-सामान्यं तावत्समानपरिणामनिबन्धनम् । तथैवान्वर्थयोगात् सजातीयेभ्यः पदार्थेभ्य एवास्य समानपरिणामनिबन्धनत्वात्, न तु विजातीयेभ्यः । तेन विजातीयार्थासमानपरिणामनिबन्धनं विशेषः; तथाविधपरिणामनिबन्धनत्वं च तत्स्वरूपवत एकस्यैव घटादेरर्थस्य, इति; तत्स्वरूपवत्त्वाभावे च वान्ध्येयस्येव घटादेरसत्त्वप्रसङ्गात् । इत्यादि साधकबाधकं पूर्वोत्तमेव, इति ।। . ... 'अविशेषमेव' इति पदं तु 'द्रव्यगुणकर्मस्वेव सामान्यम्, विशेषस्तु नित्यद्रव्येष्वेव' इति परपरिकल्पितविशेषनिरासकत्वेन सार्थकम्, इति । ननु सामान्यविशेषयोः पदार्थाविष्वाभावे कथमर्थान्तरत्वं स्यात् ? इति चेत्, न कथमपि इत्येतद्दर्शयति. 'अर्थान्तरत्वम्' इति सामान्यस्य विशेषस्य वा पदार्थाद्भिन्नत्वेऽङ्गीक्रियमाणेऽनवस्था स्यात्; तथाहि यथा द्रव्यगुणकर्मसु सामान्यं सत्, 'सत्' इत्यादिव्यवहारजनकम्; तथा. सामान्येऽपि सत्पदार्थत्वाविशेषात् तद्व्यवहारजनकं सामान्यान्तरं वाच्यम्, तत्रापि सामान्यान्तरम्, इत्यनवस्था ।
_ अथ तत्सामान्यस्य सद्व्यवहारः स्वरूपादेव भवति, तर्हि प्रकृतेऽपि तत्स्वरूपमेव तद्व्यवहारजनकमस्तु, किमिति ततो भिन्नसामान्यरूपाङ्गीकारेण ? इति ।
एवं विशेषेऽप्यनवस्था; तथाहि-यथा विशेषः स्वाश्रयव्यावृत्तिजनकः, तथा विशेषेऽपि व्यावृत्तत्वाविशेषेण व्यावृत्तिजनकं विशेषान्तरं वाच्यम्, तत्रापि विशेषान्तरम्,
इत्यनवस्था ।
अनया गत्याऽनवस्थितेर्जायमानत्वेन तयोः सामान्यविशेषयोरन्तरत्वं
यामतमNANHANNNNNNNNN
డబడ బుడబుడు బలులు కుడా బలం పు పూ పడుకులు కుల బడా