________________
स्वाश्रयार्थभिन्नत्वं न स्यात्-न भवेत् । क्व ? जिनराजशासने-जिनेन्द्रशासन एव हि एवंविधविचारस्य विद्यमानत्वात् । 'कदाचित्' इति पदं तु कथञ्चित्तयोरर्थान्तरत्वसूचकत्वे सार्थकम् ।
ननु यदि घटाद्यर्थेभ्यः सामान्यविशेषौ न भिन्नौ स्तः,तर्हि पदार्थानामनुवृत्तिव्यावृत्ती कथं स्याताम् ? इति चेत्; उच्यते, स्वत एव तेषामनुवृत्तिव्यावृत्ती भवतः; तथाहि-घट एव तावत्पृथुबुध्नोदराद्याकारवत्त्वेन प्रतीतिविषयीभवन्सन्नन्यानपि तदाकृतिभृतः पदार्थान् घटस्वरूपतया घटशब्दवाच्यतया च प्रत्याययन्सामान्याख्या लभते । स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावर्तयन्विशेषव्यपदेशमश्नुते; इति घटस्येवापरार्थानां स्वत एवानुवृत्तिव्यावृत्ती भवतः इति षष्ठवृत्तार्थः ।।६।।
ननु सामान्यविशेषौ पदार्थधर्मो धर्मधर्मिणोश्चात्यन्तभेदेनार्थान्तरत्वसिद्धौ, कथं तयोस्तन्निरासः ? इति चेत्, न धर्मधर्मिणोस्तावदत्यन्तभेदमेव नाङ्गीकुर्मः, कथं तयोरर्थान्तरत्वसिद्धिः ? इत्येतद्दर्शयति
यथाऽतिभेदो विबुधैर्निरस्यते
___ सम्बन्धहानेः खलु धर्मधर्मिणोः । भेदः कथञ्चित्तु तयोस्तथा न
श्रीमज्जिनेन्द्रागमसंमतस्तैः ।।७।। व्याख्या-'यथा' इति दृष्टान्तोपन्यासे, धर्मधर्मिणोः 'विबुधैः' जैनमतिनिष्णातैः 'अतिभेदः' सर्वथा पार्थक्यं निरस्यते । कुतः ? सम्बन्धहानेः' सम्बन्धाभावप्रसङ्गात् । कोऽर्थः ? यैर्धर्मधर्मिणोरत्यन्यभेदोऽङ्गीक्रियते, तैस्तयोः समवाय एवाङ्गीक्रियते, स च तयोरत्यन्तभेदेनोपपद्यते । न ह्यत्यन्तभिन्नयोर्घटपटयोरिव तयोः समवायसम्बधो भवति । तथा च प्रयोगः धर्मधर्मिणौ न समवायसम्बध्दौ, अत्यन्तभिन्नत्वात्, घटपटयोरिव; इति कृत्वा सम्बन्धहान्यापत्त्याऽतिभेदो बुधैर्निरस्यते, इति तात्पर्यम् ।
బడ
త
ల
డ బ
డ
డ మ
డ
డ
డ బ
ప ప
బ బ త
తలు
"