________________
ननु यद्ययं सर्वथा भेदो बुधैर्निरस्यते, तर्हि तयोर्भेदः किं सर्वथा नास्त्येव ?
इति चेत्; न, तयोः कथञ्चिद्भेदोऽस्ति इति दर्शयति- 'भेदः' इति तयोः 'कथञ्चिद्भेदस्तु तथा न तैर्बुधैर्निरस्यते इति पूर्ववदेव संटङ्कः ।
,
नन्वेवं तयोः किं सम्बन्धहानिर्न भवति इति चेत्; न भवत्येव, इति ब्रूमः; यतो धर्मधर्मिणोर्जेनैरविष्वग्भावसम्बन्ध एवाङ्गीक्रियते, स च तयोरत्यन्तभेदाभावे सिद्धे. सिद्ध एवं ।
नन्वविष्वग्भावापन्नयोस्तयोः कथञ्चिद्भेदोऽप्यनुपपन्न एव, न हि स एव घटस्तस्माद् घटाद् भिद्यते इति चेत् ? न कथञ्चिद्भेदस्यैवं सिद्धेः, तथाहिद्रव्यार्थिकनयापेक्षया नित्यस्यापि धर्मिणोऽविष्वग्भावापन्नैर्धर्मैः सहाभेदः, उत्पादविनाशादिविषयदशापन्नैस्तैरेव सह भेदः, यथा - सुवर्णस्य धर्मिणः कटकत्वमुद्रिकात्वादिभिर्धर्मैः सह भेदाभेदौ । नहि कटकत्वमुद्रिकात्वादयो धर्मास्तदाकारीभूतात्सुवर्णात्क्वचित्पृथगुपलभ्यन्ते इति कृत्वा तस्य तैः सहाभेदः, भेदस्तु कटकत्वादिधर्मनाशे मुद्रिकात्वादिधर्माणामुत्पद्यमानत्वेऽपि धर्मिणस्तस्य विद्यमानत्वात् । इति सप्तमवृत्तार्थः ।।७।।
ननु कथञ्चिद्भिन्नमपि धर्मधर्मिरूपं वस्तु किमुत्पत्तिमत् ? विनाशवत् ? स्थितिमत् ? तत्त्रयवद्वा ? इत्याशङ्कायामाह
नयामृतम्
उत्पत्तिनाशस्थितिमद्घटात्मा
दिकं मतं वस्तु जिनेन्द्रशासने ।
नाशादिकं ह्येकतरं न मन्यते
चेत्स्यादिवासन्खकुसुमं तदार्थः ।।८।।
व्याख्या-घटश्चात्मा च घटात्मानौ, तावादौ यस्य तद् घटात्मादि; तदेव घटात्मादिकम्, स्वार्थे कादेवं सिद्धिः । 'वस्तु' पदार्थः, 'उत्पत्तिनाशस्थितिमत्' इति- उत्पत्तियुक्तम्, नाशयुक्तम्, स्थितियुक्तम्, इत्यर्थः । 'मतम्' संमतम् ।
११९