________________
क्व ? जिनेन्द्रशासने अर्हत्प्रवचने । तत्र असत आत्मलाभः उत्पत्तिः, सतः सत्ताविरहो नाशः, द्रव्यतयानुवर्तनं स्थितिः । तत्र घटस्य मृत्पिण्डाद्यवस्थायां पृथुबुनोदराद्याकारत्वेनासतस्तत्स्वरूपात्मलाभादुत्पत्तिमत्त्वम्, अथ तत्त्वेन सतस्तदभिन्नस्तदाकारविरहान्नाशवत्त्वम्, तथाऽनुवृत्ताकारनिबन्धनरूपद्रव्यतयाऽनुवर्तनात्स्थितिमत्त्वम् । एवमात्मनोऽपि तत्तद्भवापेक्षया देवत्वेनासतस्तत्त्वरूपात्मलाभादुत्पत्तिमत्त्वम्, तथा देवत्वेन सतस्तन्युतिरूपसत्ताविरहानाशवत्त्वम्, द्रव्यतयाऽनुवर्तनात्स्थितिमत्त्वम् । एवं सकलार्थानामप्येतत्रयात्मकत्वमेव ।
ननूत्पादादयः परस्परं भिद्यन्ते न वा ? यदि भिद्यन्ते, तदा कथमेकं वस्तु त्र्यात्मकम् ? न भिद्यन्ते चेत् ? तथापि कथमेकं त्र्यात्मकम् ? इति चेत् न, लक्षणत्वेन तेषां कथञ्चिद्भेदाभ्युपगमात्; तथा च प्रयोगः-उत्पत्तिविनाशध्रौव्याणि कथञ्चिद्भिन्नानि, भिन्नलक्षणत्वात्, रूपवत् । अभिन्नानि च, परस्परं कदाचिदपि अनपेक्षत्वाभावात्; तथाहि-उत्पत्तिः केवला नास्ति, स्थितिविगमरहितत्वात् कूर्मरोमवत्; तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिशून्यत्वात्, तद्वत्; एवं स्थितिः केवला नास्तिं, विनाशोत्पत्तिशून्यत्वात्, तद्वदेव । एवमुत्पत्तिः स्थितिविनाशावपेक्षते, विनाशस्तु स्थित्युत्पादावपेक्षते, कोऽर्थः ? यस्यार्थस्योत्पत्तिस्तस्यैवार्थस्य स्थितिः, यस्य स्थितिस्तस्यैवोत्पत्तिः; यथा घटस्य स्वाकारादिनोत्पत्तिः, तस्यैव च घटस्य द्रव्यतया स्थितिरपि; तथा द्रव्यतया स्थितस्य घटस्य स्वाकारेणोत्पत्तिः, यस्यैवार्थस्य विनाशः, तस्यैव स्थितिः, यस्यैवार्थस्य स्थितिः तस्यैव विनाशः, यथा- घटस्यैव मृत्पिण्डावस्थाविनाशात्स्वावस्थोत्पत्तिः, द्रव्यतयाऽवस्थितस्यैव तस्य तदाकारविरहान्नाशः, एवमुत्पादव्ययध्रौव्याणां परस्परसापेक्षत्वेनाभेदोऽपि सिद्धः । तेनोत्पत्तिस्थितिविनाशाः कथञ्चिद्भिन्नाः । इति सिद्धमेकं वस्तु त्र्यात्मकम्, इति ।
नन्वेतेषां त्रयाणां मध्ये क्वचिद्यधकतरं नाङ्गीक्रियते, तदा किं भवति ? इत्याह 'नाशादि' इति चेत्; यद्येतेषामुत्पत्तिस्थितिनाशानां मध्यानाशादिकमेकतरं न मन्यते-नाङ्गीक्रियते । केषाञ्चित् गगनाद्यर्थानां नाशो नाङ्गीक्रियते, (१२०
"""""" नयामतम
బ
ల
ల
ల
ల
ల
లా
ల
ల లా బడా బడా బడా బడా