________________
आदिशब्दादेवोत्पत्तिर्नाङ्गीक्रियते, उत क्षणिकवादाश्रयणेन तेषामेव स्थितिर्नाङ्गीक्रियते, तदा तर्हि अर्थो-घटादिः 'खकुसुमम्' इव गगनकुसुममिव असन् भवेत् । अयं भावार्थः उत्पत्तिनाशस्थितिमत्त्वं तावत्सत्त्वम्, नाशाद्यनङ्गीकारे चार्थस्यैतल्लक्षणलक्षितसत्त्वाभावादसत्त्वमेव स्यात्, खकुसुमदृष्टान्तेऽपि तथात्वा
भावात्सत्त्वाभावः ।
ननु खकुसुमे त्वेतेषां त्रणायामप्यभावोऽस्ति, प्रकृते च एकतराद्यनङ्गीकारे कथं खकुसुमसाम्यम् ? इति चेत्; सत्यम्, नाशाद्येकतराङ्गीकारे ह्यपरयोर्द्वयोरप्यनङ्गीकार एव; तथाहि नाशाभावाद् घटस्योत्पत्तिर्नास्ति पूर्वाकारपरित्यागेनैवोत्तराकारोत्पादात् । परित्यागस्तु नाश एव इति तयोः साहचर्यम् ।
अथ यस्योत्पत्तिर्नास्ति, तस्य स्थितिरपि नास्ति, स्वाकारेणोत्पन्नस्यैव द्रव्यतया स्थितत्वात्; अन्यथाऽनुत्पन्नत्वेन पर्यायाभावाद् द्रव्यत्वाभावप्रसक्तयाऽसत्त्वमेव स्यात् । न हि जगति पर्यायद्रव्यातिरिक्तं किञ्चिदस्ति इति । तथा चैकतराद्यभावे त्रयाणामप्यभावादर्थस्य खकुसुमसाम्यं स्यात् असत्त्वाविशेषात् तस्मादुत्पत्तिस्थिति: विनाशवदेव वस्त्वङ्गीकर्त्तव्यम्' इत्यष्टमवृत्तार्थः ।।८।।
9
अथोपसंहरन्नाह :
जयत्यसौ श्रीजिनशासनस्ततः स्याद्वादतात्पर्यनिबन्धबन्धूरः ।
नयामृतम्
नयप्रकाशाष्टकनामधारकः
स्वार्थं कृतः पण्डितपद्मसागरैः ।।८।।
सुकरमेवेदं नवमवृत्तम्, इति । समाप्तेयं श्रीनयप्रकाशवृत्तिः ।
स्याद्वादनिष्णातचक्रिचक्रशिरोमणिः ।
अतुच्छस्वच्छसद्गच्छतपोगच्छप्रभुः प्रभुः । । १ । ।
१२१