Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust
View full book text
________________
पूर्वपूर्वनयः प्रचुरगोचरः । परस्तु परिमितविषयः (७.४६)। सन्मात्रगोचरात् संग्रहात् नैगमो भावाभावभूमिकत्वाद् भूरिविषयः, (७.४७) सद्विशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः । वर्तमानविषयाद् ऋजुसूत्राद् व्यवहारस्विकालविषयत्वात् बहुविषयः (७.४९) कालादिभेदेन भिन्नार्थोपदर्शनात् शब्दाद् ऋजुसूत्रो विपरीतत्वान्महार्थः, (७.५०) प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दः प्रभूतविषयः (७.५१) प्रतिक्रियं भिन्नार्थ प्रतिजानानाद् एवंभूतात् समभिरूढः महान् गोचरः । (७.५२) ___नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभंगीमनुव्रजति । (७.५३) अंशग्राही नैगमः, सत्ताग्राही संग्रहः, गुणप्रवृत्तिलोकप्रवृत्तिग्राही व्यवहारः, कारणपरिणामग्राही ऋजुसूत्रः, व्यक्तकार्यग्राही शब्दः, पर्यायान्तरभिन्नकार्यग्राही समभिरूढः, तत्परिणमनमुख्यकार्यग्राही एवंभूतः, इत्याद्यनेकरूपो नयप्रचारः । “जावंतिया वयणपहा तावंतिया चेव हुँति नयवाया" इति वचनात् । उक्तो नयाधिकारः । - सकलनयसंग्राहकम् प्रमाणं, प्रमाता आत्मा प्रत्यक्षादिप्रमाणसिद्धः चैतन्यस्वरूपपरिणामी कर्ता साक्षाद् भोक्ता स्वदेहपरिणामः प्रतिक्षेत्रभिन्नत्वेनैव पञ्चकारणसामग्रीतः सम्यग्दर्शनज्ञानचारित्रसाधनात् साधयति सिद्धिम् । स्वपरव्यवसायिज्ञानं प्रमाणम् ।. तद् द्विविधं प्रत्यक्षपरोक्षभेदात्स्पष्टं प्रत्यक्षं परोक्षमन्यत् अथवा आत्मोपयोगत इन्द्रियद्वारा प्रवर्तते यज्ज्ञानं तत्प्रत्यक्षं, अवधिमनःपर्यायौ देशप्रत्यक्षौ, केवलज्ञानं तु सकलप्रत्यक्षं, मतिश्रुते परोक्षे । तञ्चतुर्विधं अनुमानोपमानागमार्थापत्तिभेदात्, लिङ्गपरामर्शोऽनुमानं, लिङ्गं चाविनाभूतवस्तुकं नियतं ज्ञेयं, यथा गिरिगुहरादौ व्योमावलम्बिधूम्रलेखां दृष्ट्वा अनुमानं करोति, पर्वतो वह्निमान् धूमवत्त्वात्, यत्र धूमस्तत्राग्निः, यथा महानसं, एवं पञ्चावयवशुद्धं अनुमान यथार्थज्ञानकारणं, सादृश्यावलम्बनेनाज्ञातवस्तुनां यज्ज्ञानं उपमानज्ञानं यथा गौस्तथा गवयः गौसादृश्येन अदृष्टगवयाकारज्ञानं उपमानज्ञानं । यथार्थोपदेष्टा पुरुष आप्तः स उत्कृष्टतो वीतरागः सर्वज्ञ एव, आप्तोक्तं वाक्यं आगमः, रागद्वेषाज्ञानभयादिदोषरहितत्त्वात् अर्हतः वाक्यं आगमः, तदनुयायि पूर्वापराविरुद्धं मिथ्यात्वासंयमकषायभ्रांतिरहितं स्याद्वादोपेतं वाक्यं अन्येषां शिष्टानामपि वाक्यं आगमः । लिङ्गग्रहणाद् ज्ञेयज्ञानोपकारकं अर्थापत्तिप्रमाणं, यथा पीनो देवदत्तो दिवा न भुङ्क्ते अर्थाद्रात्रौ भुङ्क्ते एव इत्यादि प्रमाणपरिपाटीगृहीत जीवाजीवस्वरूपः संम्यग्ज्ञानी उच्यते । (नयामृतम् ।
"LTDOOCHOOCHAITANTDAICOBAILGADAळ
१४५ क टकजन.
Page Navigation
1 ... 158 159 160 161 162 163 164