Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust
View full book text
________________
वर्तमानकालीनं वस्तु तस्यर्जुसूत्रस्यास्ति, अन्यत्र शेषातीतानागतं परकीयं च यद्यस्मात् असदविद्यमानं ततो असत्त्वादेव तद्वक्रमिच्छत्यसाविति । अत एव उक्तं नियुक्तिकृता -
“पनुपन्नगाही उज्जुसुयनयविही मुणेयव्वोत्ति" (आ.नि. ५७)
यतः कालत्रये वर्तमानमंतरेण वस्तुत्वं उक्तं च यतः अतीतं (नष्टं) अनागतं भविष्यति न सांप्रतं तदवस्तु इति वर्तमानस्यैव वस्तुत्वमिति । अतीतस्य कारणता अनागतस्य कार्यता जन्यजनकभावेन प्रवर्तते अतः ऋजुसूत्रं वर्तमानग्राहकं । तद् वर्तमानं नामादिचतुःप्रकारं ग्राह्यम् ।।
“शप् आक्रोशे” शपनमाह्वानमिति शब्दः, शपतीति वा आह्वयतीति शब्दः, शप्यते आहूयते वस्तु अनेनेति शब्दः, तस्य शब्दस्य यो वाच्योऽर्थस्तत्परिग्रहात्तत्प्रधानत्वान्नयः शब्दः, यथा कृतकृत्वादित्यादिकः पंचम्यन्तः शब्दोऽपि हेतुः । अर्थरूपं कृतकत्वमनित्यगमकत्वान्मुख्यतया हेतुरुच्यते उपचारतस्तु तद्वाचकः कृतकत्वशब्दों हेतुरभिधीयते, एवमिहापि शब्दवाच्यार्थ - परिग्रहादुपचारेण नयोऽपि शब्दो व्यपदिश्यते इति भावः । यथा ऋजुसूत्रनयस्याभीष्टं प्रत्युत्पन्नं वर्त्तमानं तथैव इच्छत्यसौ शब्दनयः । यद्यस्मात् पृथुबुध्नोदरकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ न तु शेषान् नामस्थापनाद्रव्यरूपान् त्रीन् घटानिति । शब्दार्थप्रधानो ह्येष नयः, चेष्टालक्षणश्च घटशब्दार्थो, “घट चेष्टायां" 'घटते इति घटः' अतो जलाहरणादिचेष्टां कुर्वन् घटः । अतश्चतुरोऽपि नामादिघटानिच्छति । ऋजुसूत्राद्विशेषिततरं वस्तु इच्छति असौ'। शब्दार्थोपपत्तेर्भावघटस्यैवानेनाभ्युपगमादिति । अथवा ऋजुसूत्रात् शब्दनयः विशेषिततरः, ऋजुसूत्रे सामान्येन घटोऽभिप्रेतः, शब्देन च सद्भावादिभिरनेकधर्मैरभि इति ।
जंसणं भासतं तं चिय समभिरोहए जम्हा । सतरत्थविमुह, तओ नओ समभिरूढोति ।। (विशे. २२३६)
यां यां संज्ञां घटादिलक्षणां भाषते वदति तां तामेव यस्मात् संज्ञान्तरार्थविमुखः समभिरूढो नयः नानार्थनामा एव भाषते । यदि एकपर्यायमपेक्ष्य सर्वपर्यायवाचकत्वं
नयामृतम् డివిడి
१४१
Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164