Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 115
________________ ‘अस्त्येव कुम्भः' इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाद्यस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात्, तत्प्रतिपत्तये 'स्यात्' इति शब्दः - प्रयुज्यते, स्यात्-कथञ्चित् स्वद्रव्यादिभिरेवायमस्ति न परद्रव्यादिभिरपि, इत्यर्थः । यत्रापि चासौ न प्रयुज्यते, तत्रापि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम् " सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते" यथैवकारोऽयोगादिव्यवच्छेदप्रयोजन इति । अयं भावार्थः स्यात्पदेन हि स्वरूपेणास्तित्वायोगव्यवच्छेदः क्रियते, एवकारेण च पररूपेण नास्तित्वायोगव्यवच्छेदः क्रियते इति प्रथमो भङ्गः । 1 'स्यात्' कथञ्चित् 'नास्त्येव कुम्भादिः ' स्वद्रव्यादिभिरिव परद्रव्यादिभिरषि, वस्तुनोऽसत्त्वानङ्गीकारे प्रतिनियतस्वरूपाभावाद्वस्तुप्रतिनियतिर्न स्यात् । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धम् इति वक्तव्यम् कथञ्चित्तस्य वस्तुनि युक्तिसिद्धत्वात्, साधनवत् । न हि क्वचिदनित्यत्वादौ साध्ये. सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वमन्तरेणोपपन्नम्, तस्य साधनत्वाभावप्रसङ्गात्; तस्माद्वस्तुनोऽस्तित्वं नास्तित्वेनाविनाभूतम्, नास्तित्वं च तेन, इति विवक्षावशाचानयोः प्रधानोपसर्जनभावः । प्रथमभङ्गे हि विधेः प्राधान्येन निरूपणम्, प्रतिषेधस्य गौणत्वेन । द्वितीयभङ्गे तु प्रतिषेधस्य प्राधान्येन निरूपणम्, विधेस्तु गौणत्वेन; इत्यनयोर्विशेषः । एवमुत्तरभङ्गेष्वपि ज्ञेयम्, इति द्वितीयो भङ्गः । तृतीयः स्पष्ट एव द्वाभ्यामस्तित्वनास्तित्वधर्माभ्यां युगपत्प्रधानतयाऽर्पिताभ्यामेकस्य वस्तुनोऽभिधित्सायां तादृशस्य शब्दस्यासम्भवात्, अवक्तव्यं जीवादि वस्तु । तथाहि-सदसत्त्वगुणद्वयं युगपदेकत्र 'सत्' इत्यनेन वक्तुमशक्यम्, तस्यासत्त्वप्रतिपादनासमर्थत्वात्; तथा 'असत्' इत्यनेनापि, तस्य सत्त्वप्रत्यायनसामर्थ्याभावात्; न च पुष्पदन्तादिवत् सांकेतिकमेकपदं तद्वक्तुं समर्थम्, तस्यापि क्रमेणार्थद्वयप्रत्यायने सामर्थ्योपपत्तेः । १०० नयामृतम्

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164