Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 109
________________ स च परोऽपरश्च । तत्र परः सकलभावानां सदात्मनैकत्वमभिप्रेति, सर्वमेकम्, अविशेषात्; इत्याद्युक्त्या सत्तात्मत्वेनैकत्वमशेषार्थानां सङ्गृह्यतेऽनेन, इत्यर्थः । . निराकृताशेषविशेषस्तु सत्ताद्वैताभिप्रायस्तदाभासः, प्रमाणप्रतिपन्नानन्ताशेषधर्माणां लोपात्; इति । तथाऽपरसङ्ग्रहो द्रव्यत्वेनाशेषद्रव्याणामेकत्वमभिप्रैति । 'द्रव्यम्' इत्युक्ते हि अतीतानागतवर्तमानकालवत्तिविवक्षिताविवक्षितपर्यायद्रवणशीलानां जीवाजीवतद्भेदप्रभेदानामेकत्वेन सङ्ग्रहः । .. सामान्यविशेषाणां सर्वथाऽर्थान्तरत्वाभिप्रायो वाऽपरसङ्ग्रहाभासः, प्रतीतिविरोधात्, इति । .. सङ्ग्रहगृहीतार्थानां विधिपूर्वकमवहरणं विभजनं विभेदेन प्ररूपणं व्यवहारः । . सङ्ग्रहस्तु सर्वद्रव्याणि द्रव्यम्, इति; सर्वपर्यायाश्च पर्याय, इति सङ्ग्रहाति । व्यवहारस्तु तद्विभागमभिप्रेति, यद् द्रव्यम् तद्धर्माधर्माकांशकालपुद्गलजीवादिभेदात् .. षोढा इति । एवं सहभावित्वक्रमभावित्वरूपं पर्यायविभागमपि यथासम्भवमभिप्रैति व्यवहारः । कल्पनाऽऽरोपितद्रव्यपर्यायप्रविभागमभिप्रेति व्यवहाराभासः, द्रव्यादिप्रविभागस्तु न सन्, प्रपञ्चरूपत्वात्; इत्यादितदुक्तिः । 'ऋजु'–प्राञ्जलम्-वर्तमानक्षणमात्रं सूत्रयति, इति ऋजुसूत्रः ; सुखक्षणः सम्प्रत्यस्ति इत्यादिः । द्रव्यस्य सतोऽप्यनर्पणात्, अतीतानागतयोश्च विनष्टानुत्पन्नत्वेन असम्भवात् । न चैवं लोकव्यवहारविलोपप्रसङ्गः, नयस्यास्यैवं विषयमात्रप्ररूपणात्, लोकव्यवहारस्तु संकलनयसमूहसाध्य इति । अत्र केचिदेवमपि निरूपयन्ति-ऋजुसूत्रः पुनरिदं मन्यते वर्तमानक्षणवत्यैव वस्तुरूपम्, न अतीतमनागतं च; अतीतस्य विनष्टत्वात्, अनागतस्य चानुत्पन्नत्वात्, खरविषाणस्येव अर्थक्रियाकारित्वाभावात् । यदेव अर्थक्रियाकारि, तदेव वस्तु, अत एवास्याभिप्रायेणानुपयोगित्वात् परकीयं वस्त्वप्यवस्त्वेव इति । . - यस्तु सर्वद्रव्यं सर्वथा प्रतिक्षिपति अखिलार्थानां प्रतिक्षणं क्षणिकत्वाभिमानात् स तदाभासः प्रतीतिविरुद्धत्वात्, इति । नयामृतम् ९४ suce et see ei vas E SUGESUT SIC SIC SIC SICAJU CAUCA

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164