________________
एकस्य देशस्य सत्त्वेनापरस्य च युगपदुभयथादेशे द्वितीयो विकलादेशः । देशेऽसत्वस्य देशे च युगपदुभययोविवक्षणे षष्ठः । . देशेऽस्तित्वस्य, देशे नास्तित्वस्य, देशे च युगपदुभययोविविक्षायां सप्तमः ।।
एते च परस्पररूपापेक्षया सप्तभङ्ग्यात्मकाः प्रत्येकं स्वार्थं प्रतिपाद यन्ति नान्यथेति प्रत्येकं तत्समुदायो वा सप्तभङ्गयात्मकः प्रतिपाद्यमपि तथाभूतं दर्शयतीति सम्प्रदायविदो वदन्ति । ___ तत्र जिज्ञासितसप्तधर्मात्मकप्रतिपादकत्वपर्याप्त्यधिकरणमहावाक्यत्वरूपसप्तभङ्गीत्वं समुदाय एव, निरुक्तप्रतिपादकत्वाधिकरणवाक्यत्वरूपं च तत् प्रत्येकमपीति विवेकः ।
अत एव ‘स्यात्'पदलाञ्छनविवक्षितधर्मावधारकत्वेन स्वार्थमात्रप्रतिपादन प्रवणत्वेन च द्विधा सुनयत्वमुदाहरन्ति । आद्यं सप्तभङ्गयात्मकमहावाक्यैकवाक्य तापनवाक्ये, अन्त्यं चोदासीने धर्मान्तरोपादानप्रतिषेधाकारिणि । इत्थं च ‘स्यादस्ति' इत्यादि प्रमाणं, 'अस्त्येव' इत्यादि दुर्नयः, 'अस्ति' इत्यादिकः सुनयः न तु स व्यवहाराङ्गं । 'स्यादस्ति एव' इत्यादिस्तु दुर्नय एव व्यवहारकारणं स्वपरानुवृत्तव्यावृत्तवस्तुविषयप्रवर्तकवाक्यस्य व्यवहारप्रवर्तकत्वादिति ग्रन्थकृतो विवेचयन्ति ।
अथानन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा कल्पनेऽष्टमनवम विकल्पयोः कल्पनमपि किं न क्रियत इति चेन्न तत्परिकल्पननिमित्ताभावात् । इत्ययमुक्तन्यायेन वस्तुप्रतिपादने सप्तविध एव वचनमार्ग इति स्थितम् । सप्तभङ्ग्यां नयावतार :
अत्रैवं नयविभागमुपदर्शयन्ति श्रीसिद्धसेनदिवाकरपादाः- . एवं सत्तवियप्पो वयणपहो होई अत्थपज्जाए । वंजणपज्जाए पुण सवियप्पो निम्वियप्पो य ।। सन्म. १-४१ ।।
नियामृतम्
ಇವರ
ಪಪಪಪಪಪಪ ಪಪಪಪಪಪ ಪಪಪ