SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ तत्र प्रथमो भङ्गः सङ्ग्रहे सामान्यग्राहिणि । 'नास्ति' इत्ययं तु व्यवहारे विशेषग्राहिणि । ऋजुसूत्रे तृतीयः । चतुर्थः सङ्ग्रहव्यवहारयोः । पञ्चमः सङ्ग्रह सूत्रयोः । षष्ठो व्यवहारर्नुसूत्रयोः । सप्तमः सङ्ग्रह-व्यवहारर्नुसुत्रेषु । इति विभागः । व्यजनपर्याये- शब्दनये पुनः सविंकल्पः- प्रथमे पर्यायशब्दवाच्यता विकल्प सद्भावेऽप्यर्थस्यैक्यात् । द्वितीयतृतीययोनिर्विकल्पश्च, द्रव्यार्थात् सामान्यलक्षणानिर्गतस्य पर्यायरूपस्य विकल्पस्याभिधायकत्वात्तयोः । समभिरूढस्य पर्यायभेदभिन्नार्थत्वात् एवम्भूतस्यापि विवक्षितक्रियाकालार्थत्वात् । तथा च घटो नाम घटवाचकयावच्छब्दवाच्यः शब्दनयेऽस्त्येव समभिरूद्वैवम्भूतयोर्नास्त्येवेति द्वौ भङ्गो लभ्येते, लिङ्ग-संज्ञाक्रियाभेदेन भिन्नस्यैकशब्दावाच्यत्वाच्छब्दादिषु तृतीयः । प्रथमद्वितीयसंयोगे चतुर्थः तेष्वेव चानभिधेयसंयोगे पञ्चमषष्ठ-सप्तम वचनमार्गा भवन्ति ।। .. इति बुधहितहेतोर्दर्शिताः सप्तभङ्गाः . जिनवचनसमुद्रोत्तुङ्गगङ्गातरङ्गाः । दलितकुनयवादं निर्विशेषं मया श्री ... नयविजयगुरुणां प्राप्य पूर्णप्रसादम् ।। उपसंहार : - तदेवं सप्तभङ्गीमङ्गीकुर्वाणमनेकान्तात्मकमेव वस्तु नयप्रमाणात्मकचैतन्य गोचरः सदृशासदृशपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यैव घटादेरनुभूयमानत्वात् । नयामृतम् LATUSwamCHOODANCommonsoon ७
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy