SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ननु सर्वत्रानेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तादनेकान्तप्रसक्तिरिति चेदत्र वदन्ति भयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाई। एवं भयणा नियमो वि होइ समयाविरोहेण ।। सन्म. ३-२७ ।। यथा भजना-अनेकान्तः भजते-सर्ववस्तुनि तदेतत्स्वभावतयां ज्ञापयति । तथा भजनापि- अनेकान्तोऽपि, भजनीया- अनेकान्तोऽप्यनेकान्त इतीष्टोऽस्माकमिति । नयप्रमाणापेक्षयैकान्तश्चेत्येवमसौ ज्ञापनीयः । तथा हिंनित्यानित्यादिशबलैकस्वरूपे वस्तुनि नित्यत्वानित्यत्वाद्येकतरधर्मावच्छेदकावच्छेदेन वोभयात्मकत्वं । तथा नित्यानित्यत्वादिसप्तधर्मात्मकत्व प्रतिपादकतापर्याप्त्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छे देनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्यावच्छेदेन चैकान्तात्मकत्वं न दुर्वचमिति भावः । न चैवमव्यापकोऽनेकान्तवादः, ‘स्यात्'पदसंसूचितानेक्रान्तगर्भस्यैवेकान्तस्वभावत्वात्, अनेकान्तस्यापि ‘स्यात्' कारलाञ्छनैकान्तगर्भस्यानेकान्तस्वभावत्वात् । ततः सर्वमनेकान्तात्मकं, अन्यथा प्रतिनियतरूपतानुपपत्तेरिति व्यवस्थितम् । अनेकान्तव्यवस्थितिश्रद्धव भावतः. सम्यक्त्वं तद्विकलानामुत्कृष्ट चारित्रानुष्ठानस्यापि तथाविधफलाभावात् । तदुक्तं वादिगजकेसरिणा श्री सिद्धसेनदिवाकरेण चरणकरणप्पहाणा ससमयपरसमयमुक्कवावारा । चरणकरणस्स सारं णिच्छयसुद्धं न याणंति ।। सन्म. ।। चरणकरणयोः प्रधानास्तदनुष्ठानतत्पराः, स्वसमयपरसमयमुक्तव्यापारा:'अयं स्वसमयोऽनेकान्तवस्तुस्वरूपप्ररूपणाद्, अयं च परसमय: केवलनयाभिप्रायप्रतिपादनात्' इत्यस्मिन् परिज्ञानेऽनादृताः । अनेकान्तात्मक-वस्तुतत्त्वं यथावदनवबुध्यमानास्तदितरव्यवच्छेदेनेति यावत् । चरण-करणयोः सारं फलं । २० .COMomosलकमलनाsoora नयामृतम्
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy