SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ . (३) स्यादवक्तव्य एव । (४) स्यादस्त्येव स्यान्नास्त्येव । (५) स्यादस्त्येव स्यादवक्तव्य एव । (६) स्यान्नास्त्येव स्यादवक्तव्य 1 (७) स्यादस्त्येव स्यान्नास्त्येवं स्यादवक्तव्य एव । तत्रासत्त्वोपसर्जन-सत्त्वविवक्षायां प्रथमो भङ्गः । सत्त्वोपसर्जनासत्त्वविवक्षायां द्वितीयः । युगपदुभयविवक्षायां तृतीयः । एते च त्रयो भृङ्गाः गुण-प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः सन्तः सकलादेशाः । स्यात्कारपदलाञ्छितैतद्वाक्याद् विवक्षाकृतप्रधानभावसदाद्येक धर्मात्मकस्यापेक्षितापरशेषधर्मक्रोडीकृतस्य वाक्यार्थस्य प्रतीतेः । विवक्षाविरचितद्वित्रिधर्मानुरक्तस्य 'स्यात्कारपदसंसूचितसकलधर्मस्वभावस्य धर्मिणो वाक्यार्थस्य प्रतिपादका वक्ष्यमाणास्तु चत्वारो विकलादेशा इति केचित् सङ्गीरन्ते । ते चेमे(१) स्यादस्ति नास्ति च घटः इति प्रथम विकलादेशः । (२) स्यादस्त्यवक्तव्यश्च घटः इति द्वितीयः । (३) स्यान्नास्ति चावक्तव्यश्च घटः इति तृतीयः । (४) स्यादस्ति च नास्ति चावक्तव्यश्च घटः इति चतुर्थः । तत्र वस्तुनों देशो यदैकः सत्वे, अपरश्चासत्वे आदिश्यते तदा प्रथमो विकलादेशः । . आद्ययोरपि भङ्गयोः स्वद्रव्यपरद्रव्याभ्यां विभज्यत एव घट इति तत्समुदायात् कोऽस्य विशेष इति चेत्, न तत्रास्तित्वनास्तित्वावच्छेदकद्वारा विभागेऽपि अवयवद्वारा विभागाभावात्, अत्र तु तद्द्वारा विभागेन विशेषात् । तद्वारा विभागकरण एव किं बीजमिति चेत् ? सावयवनिरवयवात्मकवस्तुनः तथाप्रतिपत्तिजनकसावयव-निरवयवत्वशबलैकस्वरूपवाक्यत्वेन प्रामाण्यरक्षार्थ मिति दिग् ।। नयामृतम् ३५
SR No.002246
Book TitleNayamrutam
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherBherulalji Kanaiyalalji Kothari Religious Trust
Publication Year2002
Total Pages164
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy