________________
एते च नयाः प्रत्यक्षादिस्थलेऽजहवृत्त्या एकोपयोगरूपतया सापेक्षाः प्रमाणतामास्कन्दन्ति, शब्दस्थले च साकाङ्क्षखण्डवाक्यजसप्तभङ्गयात्मकमहावाक्यरूपाः प्रमाणं, न निरपेक्षाः । तदुक्तं - -
जे वयणिज्जवियप्पा संजुजंतेसु होइ एएसु । ___सा ससमयपण्णवणा तित्थयरासायणा अण्णा ।। सन्मति १-५३।। .
ये-वचनीयस्य-अभिधेयस्य, विकल्पा:- तत्प्रतिपादका अभिधानभेदाः संयुज्यमानयोः-अन्योन्यसम्बद्धयोर्भवन्ति । अनयोः द्रव्यास्तिकपर्यायास्तिक नयवाक्ययोः । ते च कथंचिनित्य आत्मा कथंचिदनित्य इत्येवमादयः ।, सा एषा स्वसमयस्य-तत्त्वार्थस्य प्रज्ञापना-निदर्शना, अन्या-निरपेक्षनयप्ररूपणा तीर्थकरस्याशातना अधिक्षेपः तत्प्ररूपणोतीर्णत्वात् । उत्सर्गतः स्याद्वादद्वेशनाथा एव तीर्थकरेण विहितत्वात् । 'विभजवायं च वियागरेजा' इत्याद्यागम वचनोपलम्भात् । पुरुषविशेषमपेक्ष्यापवादतस्त्वेकनयदेशनायामपि न दोषः । तदाह सन्मतो
पुरिसज्जायं तु पडुब्छ, जाणओ पनवेज अनयरं ।
परिकम्मणानिमित्तं, ठाएहि सो विसेसंपि ।। सन्मति १-५४ ।। पुरुषजातं-प्रतिपन्नद्रव्यपर्यायान्यतरस्वरूपं श्रोतारं, प्रतीत्याश्रित्य ज्ञकः स्याद्वादवित्, प्रज्ञापयेदन्यतरत् अज्ञातपरिकर्मनिमित्तं अज्ञातांशसंस्कारपाटवार्थम्, ततः परिकर्मितमतये स्थापयिष्यत्यसौ स्याद्वादविशेषमपि परस्परविनिर्भागरूपम् । ततश्चेयं एकनयदेशनापि भावतः स्याद्वाददेशनैवेति फलितम् ।। सप्तभङ्गीनिरूपणम् :
अतः स्याद्वाददेशनाया एव परिणतजिनवचनानामभ्यर्हितत्वात् । तद्वाक्यमुपदर्श्यते
(१) स्यादस्त्येव घटः । (२) स्यानास्त्येव ।
(३४
ACARDASTDestamaitmaita
n
der