________________
न तु स्वगृहकोणादिव्यवस्थितमचेष्टनादित्येवं विशेषतः शब्दार्थतत्परोऽयमिति
भावः ।
वंजण - अत्थ-तदुभअं एवंभूओ विसेसेइ ।। २१८५ ।। इति निर्युक्तिदलं । एतन्मते कर्मधारयोऽपि पदानां न भवति सर्वस्यापि वस्तुनः प्रत्येकम • खण्डरूपत्वात्, नीलोत्पलादिसमासश्च द्वयोः पदयोरेकाधिकरणतायां भवति । द्वयोश्चैकाधिकरणं नास्ति, अनन्तरमेव निषिद्धत्वात् इति कर्मधारयसमासोऽपि न युक्तः । नन्वेवं 'नीलघट:' इत्यादि समासात्, 'नीलो घट:' इत्यादि वाक्याच्च शाब्दबोधो न स्यादिति चेत्, गृहीतैवंभूतनयव्युत्पत्तीनां न स्यादेव । अन्येषां तु भवद् अयं भ्रमरूपतां नातिक्रामतीति गृहाण । समभिरूढेन ह्येकपदार्थे भेदसम्बन्धेनेतरपदार्थान्वयाभावव्याप्यत्वं स्वीक्रियते, मया तु सम्बन्धमात्रेणेतरपदार्थान्वयाभावव्याप्यत्वमिति लाघवम् । तस्मान्नीलघट इत्यादौ नीलीभवनान्नीलः घटनाद् घटः इत्यादि क्रियाद्वयासमावेशादनन्वय एव । गुणादिवाचिनः शब्दास्त्वेतन्नये न सन्त्येव सर्वेषामेव व्युत्पत्त्यर्थपर्यालोचनायां क्रियाशब्दत्वात् । क्रियाशब्दयोरपि च भिन्नयोः परस्परं अनन्वय एव, नील-घटादिविशृङ्खल पदोपस्थित्यनन्तरं तत्संसर्गबोधश्च मानसोत्प्रेक्षामात्रं तथैव च सर्वो व्यवहारः । यदि च नीलो घटः इत्यादेरखण्डनीलघटादिवाक्यार्थबोध: शाब्द एवानुभवसिद्धस्तदा वाक्यार्थस्याखण्डत्वादखण्डवस्तुबोधाय वाक्ये लक्षणैव स्वीकर्तव्या । .. वेदान्तीनां ‘सोऽयं देवदत्तः' इत्यादौ ' तत् त्वमसि' इत्यादौ च । सा च न शक्यसम्बन्धरूपा पदद्वयात्मकवाक्यशक्ययोः सम्बन्धानभ्युपगमात् । किन्तु तात्पर्यसध्रीचीनाखण्डवस्तु-विषयकशाब्दबोधजनकशक्तिविशेषस्वभावा । वाक्यस्फोटाभ्युपगमे तु तत एवाभिव्यक्ताखण्डादखण्डवस्तुबोधो नानुपपन्न इति रहस्यम् ।।
यथा
नयामृतम्
समर्थिता इति श्रीमद्यशोविजयवाचकैः । श्रीसिद्धान्तानुसारेण नयाः शब्दादयस्त्रयः ।।
इति नयविचारः ।।
३३