________________
समभिरूढनयनिरुपणम् : एकामेव संज्ञां समभिरोहतीति समभिरूढः । आह च भाष्यकृत्
जं जं सण्णं भासइ तं तं चिय समभिरोहए जम्हा । __सण्णंतरत्थविमुहो तओ णओ समभिरूढो त्ति ।। २२३६ ।।
यां यां संज्ञां 'घटः' इत्यादिरूपां भाषते तां तामेव यस्मात् संज्ञान्तरार्थविमुखः कुटकुम्भादिशब्दवाच्यार्थनिरपेक्षः समभिरोहति- तत्तद्वाच्यार्थविषयत्वेन प्रमाणी करोति, ततः- तस्मादर्थसमभिरोहणात् समभिरूढो नयः । यो घटशब्दवाच्योऽर्थस्तं कुटकुम्भादिपर्यायशब्दवाच्यं नेच्छत्यसावित्यर्थः ।
वत्थूओ संकमणं होइ अवत्थु णए समभिरूढे ।। इति नियुक्तिदलम् । :
एतन्नये परगतस्य दानहरणादेर्नास्त्येव सद्भावः, स्वगतं तत्फलं तु स्वगतदान हरणादि-अध्यवसायविशेषादेवेति विवेचितमन्यत्र ।।.. ..
अयं पुनरिह शब्दसमभिरूढयोरवान्तरविशेषोऽनुसंधेयः यदायेन बाह्यवस्तु सनिधापितस्तदाकाराध्यवसाय: फलक्षमोऽभ्युपेयः, द्वितीयेन तु वासनामात्रोत्यापित इति । इत्थमेव नैगमनये जीवाजीवयोहिंसा, सङ्ग्रहव्यवहारयोः षट्स्वेव कायेषु, ऋजसत्रे प्रतिजीवं भिन्ना भिन्ना सा, शब्दनये तु स्वपरिणामविशेषरूपैव सा इत्यादि नयविचारे शब्दसमभिरूढयोर्भावहिंसाद्याश्रित्य विषयभेदः सङ्गच्छते । एवम्भूतस्तु क्रियाकालान्यकालस्पर्शिपदार्थप्रतिषेधादेव विशिष्यत इति न तत्र युक्त्यन्तरं मृग्यम् ।। एवम्भूतनयनिरूपणम् :
पदार्थव्युत्पत्तिनिमित्तक्रियाकालव्यापकपदार्थसत्ताभ्युपगमपर एवम्भूतः । आह च भाष्यकार:
एवं जह सद्दत्थो संतो भूओ तह तयन्नहाभूओ ।
तेणेवंभूयनओ सद्दत्थपरो विसेसेणं ।। २२५१ ।। अयं हि योषिन्मस्तकारूढं जलाहरणादिक्रियानिमित्तं घटमानमेव घटं मन्यते,
అడవి
ల
ల
ల
ల
ల
ల
లా ఎలా ఎలా ఎలా
ఎలా ఎలా ఎలా
नयामृतम्