________________
नाम-स्थापना-द्रव्यरूपाः कुम्भा न भवन्ति, जलाहरणादितत्कार्याकरणात् पटादिवत्, तथा प्रत्यक्षविरोधात् तल्लिङ्गादर्शनाच्च । अघटरूपास्ते प्रत्यक्षेणैव दृश्यन्त इति प्रत्यक्षविरोधः, जलाहरणादि तल्लिङ्गं च तेषु न दृश्यते ततोऽनुमानविरोधोऽपीति कथं ते नामादिघटा घटव्यपदेशभाजो भवेयुः ? । घटपदान्नामादिघटोपस्थितेरस्खलिताया दर्शनात् तत्र तत्पदशक्तेरव्याहतत्वात् स्वारसिकघटपदलक्षणो व्यपदेशस्तेषु न विरुध्यत इति चेत्, न, अन्तरङ्गप्रत्यासत्या भावघट एव घटपदशक्तेरभ्युपगमात्, नामादिषु तत्पदप्रयोगस्यास्वारसिकत्वादिति दिग् ।
अथवा लिङ्गवचने समाश्रित्य विशेषिततरं वस्तित्वच्छति शब्दनय इति दर्शयन्नाह भाष्यकृत्
वत्थुमविसेसओ वा जं भिन्नाभिन्नवयणं पि । इच्छइ रिउसुत्तनओ विसेसियतरं तयं सहो ।। कुत ? इत्याहधणिभेयाओ भेओ त्थीपुलिंगाभिहाणवञ्चाणं ।
पडकुंभाणं व जओ तेणाभिन्नत्थमिळं तं ।। ....यादृशो ध्वनिस्तादृश एवार्थोऽस्येष्ट इति । अन्यलिङ्गवृत्तेस्तु शब्दस्य
नान्यलिङ्गवांच्यमिच्छत्यसौ । नाप्यन्यवचनवृत्तेः शब्दस्य अन्यवचनवाच्यं . . वस्त्वभिधेयमिच्छत्यसौ इति भावः । ... समभिरूढेन सहास्य मतभेदं दर्शयति
बहुपज्जायं पि मयं सहत्थवसेण सदस्स । - 'बहुपर्यायमपि' - ‘इन्द्रः शक्रः पुरन्दरः' इत्यादिनानापर्याय वाच्यमप्येकमिन्द्रादिकं वस्तु 'शब्दस्य'इन्द्रादेरिन्दनादिको योऽर्थस्तद्वशेन शब्दनयस्य मतमभिमतम् । इन्दन-शकन-पूरिणादीनामर्थानामेकस्मिन्निंद्रादिके वस्तुनि समावेशासम्भवात् । समभिरूढस्तु नैवं मन्यत इति स्फुटीभविष्यतीत्यनयोर्भेदः ।।
STANDUTOTASTAITDADANTAGRATIकाककककका २९