________________
शब्दनयनिरूपणम् : . 'शप् आक्रोशे' शपनं-आह्वानमिति शब्दः ।
शपति- आह्वयतीति वा शब्दः । ___ शप्यते वाहूयते वस्त्वनेनेति शब्दः । शब्दस्य यो वाच्योऽर्थस्तत्प्रधानत्वान्नयोऽपि शब्दः उपचारात् । यथा कृतकत्वादित्यादिकः पञ्चम्यन्तशब्दोऽपि हेतुः । अर्थरूपं हि कृतकत्व मनित्यत्वगमकत्वान्मुख्यतया हेतुरुच्यते उपचारात्तु तद्वाचकः शब्दः । तद्वदिहापि द्रष्टव्यम् । उक्तं च महाभाष्यकृता -
सवणं सपइ स तेणं व सप्पए वत्थु जं सद्दो ।
तस्सत्थपरिग्गहओ नओ वि सद्दो त्ति हेउ ब्व ।। २२२७ ।। शब्दवाच्यार्थपरिग्रहप्राधान्यम्इच्छइ विसेसियतरं पञ्चप्पण्णो नओ सद्दो । २१८४ ।। नि. ।। इति नियुक्तिदलं तत्र भाष्यम्
तं चिय रिउसुत्तमयं पशुप्पन्नं विसेसियतरं सो।
इच्छइ भावघडं चिय जं न उ नामादिए तिण्णे ।। २२२८ ।। तदेव ऋजुसूत्रनयमतं - ऋजुसूत्रनयाभ्युपगतं । प्रत्युत्पन्नं वर्तमानं वस्तु इच्छति । असौ - शब्दनयः । कीदृशं ? विशेषिततरं । कुत इदं ज्ञायते ? यद् - यस्मात् पृथुबुध्नोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ । न तु शेषानाम-स्थापना-द्रव्यरूपास्त्रीन् घटानिति । शब्दार्थप्रधानो ह्येष नयः । शब्दार्थश्च प्रकृते घट चेष्टायामिति धात्वर्थलक्षणो भावघट एव युज्यते, न नामादिष्विति निक्षेपचतुष्टयाभ्युपगमपराद् ऋजुसूत्राद् विशेषिततरं वस्तु इच्छत्यसौ, एकस्यैव भावघटस्यानेनोपगमाद् । नामादिघटनिराकरणे प्रमाणम्
नामादओ न कुंभा तक्कज़ाकरणओ पडाइव्व । पञ्चक्खविरोहाओ तल्लिंगाभावओ वा वि ।। २२२९ वि. ।।।
नयामृतम्) PANDIDATDASTANDADADODAIनकककककका