Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust
View full book text
________________
ननु सर्वत्रानेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तादेकान्तादनेकान्तप्रसक्तिरिति चेदत्र वदन्ति
भयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाई।
एवं भयणा नियमो वि होइ समयाविरोहेण ।। सन्म. ३-२७ ।। यथा भजना-अनेकान्तः भजते-सर्ववस्तुनि तदेतत्स्वभावतयां ज्ञापयति । तथा भजनापि- अनेकान्तोऽपि, भजनीया- अनेकान्तोऽप्यनेकान्त इतीष्टोऽस्माकमिति । नयप्रमाणापेक्षयैकान्तश्चेत्येवमसौ ज्ञापनीयः । तथा हिंनित्यानित्यादिशबलैकस्वरूपे वस्तुनि नित्यत्वानित्यत्वाद्येकतरधर्मावच्छेदकावच्छेदेन वोभयात्मकत्वं । तथा नित्यानित्यत्वादिसप्तधर्मात्मकत्व प्रतिपादकतापर्याप्त्यधिकरणेऽनेकान्तमहावाक्येऽपि सकलनयवाक्यावच्छे देनोक्तरूपमनेकान्तात्मकत्वं प्रत्येकनयवाक्यावच्छेदेन चैकान्तात्मकत्वं न दुर्वचमिति भावः ।
न चैवमव्यापकोऽनेकान्तवादः, ‘स्यात्'पदसंसूचितानेक्रान्तगर्भस्यैवेकान्तस्वभावत्वात्, अनेकान्तस्यापि ‘स्यात्' कारलाञ्छनैकान्तगर्भस्यानेकान्तस्वभावत्वात् । ततः सर्वमनेकान्तात्मकं, अन्यथा प्रतिनियतरूपतानुपपत्तेरिति व्यवस्थितम् ।
अनेकान्तव्यवस्थितिश्रद्धव भावतः. सम्यक्त्वं तद्विकलानामुत्कृष्ट चारित्रानुष्ठानस्यापि तथाविधफलाभावात् । तदुक्तं वादिगजकेसरिणा श्री सिद्धसेनदिवाकरेण
चरणकरणप्पहाणा ससमयपरसमयमुक्कवावारा ।
चरणकरणस्स सारं णिच्छयसुद्धं न याणंति ।। सन्म. ।। चरणकरणयोः प्रधानास्तदनुष्ठानतत्पराः, स्वसमयपरसमयमुक्तव्यापारा:'अयं स्वसमयोऽनेकान्तवस्तुस्वरूपप्ररूपणाद्, अयं च परसमय: केवलनयाभिप्रायप्रतिपादनात्' इत्यस्मिन् परिज्ञानेऽनादृताः । अनेकान्तात्मक-वस्तुतत्त्वं यथावदनवबुध्यमानास्तदितरव्यवच्छेदेनेति यावत् । चरण-करणयोः सारं फलं ।
२०
.COMomosलकमलनाsoora
नयामृतम्

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164