Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust
View full book text
________________
तादृक्सिध्दान्यशब्दवदित्यादिरिति । अनेन हि वचनेन कालादिभेदाद्भिन्नस्यैवार्थस्याभिधायकत्वं शब्दानां व्यञ्जितम्, एतञ्च प्रमाणविरुद्धम् । आदिशब्दात् करोति क्रियते कट इत्यादि शब्दनयाभासोदाहरणं सूचितम् ।।३५।।
पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थमभिरोहन समभिरूढः ।।३६।।
पर्यायेति । शब्दनयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रेति समभिरूढस्तु पर्यायभेदे भिन्नाननभिमन्यते । अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते ।।३६।। - ...
इन्द्रनादिन्द्रः शकनाच्छकः पूर्दारणात्पुरन्दर इत्यादिषु यथा ।।३७।।
इत्यादिषु यथेति । पर्यायशब्देषु यथा निरुक्तिभेदेन भिन्नमर्थ समभिरोहन्नभिप्रायविशेषः समभिरूढस्तथान्येष्वपि घटकुटकुम्भादिषु द्रष्टव्यः ।।३७।। पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ।।३८॥ .
यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादि ।।३९॥
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियादिविशिष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतः ।।४०॥ ___ शब्देति । समभिरूढो हि इन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थ स्येन्द्रादिव्यपदेशमभिप्रेति, पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोशब्दव्यपदेशवत् । तथारूढेः सद्भावात् । एवम्भूतस्त्विन्दनादिक्रियापरिणतम) तक्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । नहि कश्चिदक्रियाशब्दोऽस्यास्ति । गौरश्व इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात् । गच्छतीति गौः, आशुगामित्वादश्व इति, शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव शुचिभवनाच्छुक्लो नीलनान्नील इति, देवदत्तो यज्ञदत्त इति यदृच्छाभिमता अपि क्रियाशब्दा एव देव एनं देयात्, यज्ञ एनं देयादिति । संयोगिद्रव्यशब्दाः
-
८०
A
नयामृतम् Namotoraastoनजनकजनजान
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d9a3e09654facee8005fad1c90b558c64f8002e6233b2917c04d95086d7fa71d.jpg)
Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164