Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 43
________________ पारमार्थिकं यञ्च व्यभिचारि तत् प्रबुद्धवासनाविशेषनान्तरीयकोपस्थितिकमप्यपारमार्थिकम् ।। एतन्नयमाश्रित्य चिदानन्दैकरससदद्वैतप्रतिपादकं वेदान्तदर्शनमुद्भूतम् ।। व्यवहारनयनिरूपणम् - : व्यवहरणं व्यवहारः । व्यवहरतीति वा व्यवहारः । विशेषतोऽवह्रियते-निराक्रियते सामान्यमनेनेति वा व्यवहारः । . अयमुपचारबहुलो लोकव्यवहारपरः । 'वनइ विणिच्छियत्थं, ववहारो सव्वदब्वेसु (विशे. २१८३) इति सूत्रम् । व्यवहारः सर्वद्रव्येषु विचार्य विशेषानेव व्यवस्थापयतीति एतदर्थः । इत्थं ह्यसौ विचारयति ननु ‘सदिति यदुच्यते तद् घट-पटादिविशेषेभ्यः किमन्यनाम ? वार्तामात्रप्रसिद्धं सामान्यमनुपलम्भानास्त्येव ।' . ' . अथवा 'वाइ' इत्यादेलोकव्यवहारो विनिश्चयतः तदर्थं व्रजति व्यवहार इत्यर्थः । तथा हि - निश्चयनयमतेन भ्रमरादेः पञ्चवर्णद्विगन्धपञ्चरसाष्टस्पर्शवत्त्वे सत्यपि तत्र कृष्णवर्णादौ जनपदस्य निश्चयो भवति, 'तमेवार्थं व्यवहारनयः स्थापयति न तु सम्मतमप्यन्यत्, तथैव लोकव्यवहारनिर्वाहात् । न चैवं भ्रमरो न श्वेतः इत्याद्यध्यक्षशाब्दयोरतस्मिंस्तद्ग्राहकत्वेन लौकिकप्रामाण्यमपि न स्यादिति शङ्कनीयं 'न श्वेतः' इत्याद्यध्यक्षस्योद्भूततया श्वेताद्यभावविषयकत्वोपगमात्, तादृशशब्दस्थले च भावसत्यताग्राहकव्युत्पत्तिमहिम्ना श्वेतादिपदानाभुद्भूतश्वेतादिपरत्वग्रहेण दोषाभावादिति दिग् ।। अस्मानयादेकान्तनित्यचेतनाचेतनवस्तुद्वयप्रतिपादकं साङ्ख्यदर्शनमुत्पन्नम् । यद् वादी___जं काविलं दरिसणं, एवं दबट्ठियस्स वत्तव्यं ।। सन्म. ३-४८ ।। . విడ బటట ల ల ల ల డ డా ఎలా ఎలా ఎలా ఎలా ఎలా ఎలా नयामृतम्)

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164