Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 45
________________ शब्दनयनिरूपणम् : . 'शप् आक्रोशे' शपनं-आह्वानमिति शब्दः । शपति- आह्वयतीति वा शब्दः । ___ शप्यते वाहूयते वस्त्वनेनेति शब्दः । शब्दस्य यो वाच्योऽर्थस्तत्प्रधानत्वान्नयोऽपि शब्दः उपचारात् । यथा कृतकत्वादित्यादिकः पञ्चम्यन्तशब्दोऽपि हेतुः । अर्थरूपं हि कृतकत्व मनित्यत्वगमकत्वान्मुख्यतया हेतुरुच्यते उपचारात्तु तद्वाचकः शब्दः । तद्वदिहापि द्रष्टव्यम् । उक्तं च महाभाष्यकृता - सवणं सपइ स तेणं व सप्पए वत्थु जं सद्दो । तस्सत्थपरिग्गहओ नओ वि सद्दो त्ति हेउ ब्व ।। २२२७ ।। शब्दवाच्यार्थपरिग्रहप्राधान्यम्इच्छइ विसेसियतरं पञ्चप्पण्णो नओ सद्दो । २१८४ ।। नि. ।। इति नियुक्तिदलं तत्र भाष्यम् तं चिय रिउसुत्तमयं पशुप्पन्नं विसेसियतरं सो। इच्छइ भावघडं चिय जं न उ नामादिए तिण्णे ।। २२२८ ।। तदेव ऋजुसूत्रनयमतं - ऋजुसूत्रनयाभ्युपगतं । प्रत्युत्पन्नं वर्तमानं वस्तु इच्छति । असौ - शब्दनयः । कीदृशं ? विशेषिततरं । कुत इदं ज्ञायते ? यद् - यस्मात् पृथुबुध्नोदराद्याकारकलितं मृन्मयं जलाहरणादिक्रियाक्षमं प्रसिद्धघटरूपं भावघटमेवेच्छत्यसौ । न तु शेषानाम-स्थापना-द्रव्यरूपास्त्रीन् घटानिति । शब्दार्थप्रधानो ह्येष नयः । शब्दार्थश्च प्रकृते घट चेष्टायामिति धात्वर्थलक्षणो भावघट एव युज्यते, न नामादिष्विति निक्षेपचतुष्टयाभ्युपगमपराद् ऋजुसूत्राद् विशेषिततरं वस्तु इच्छत्यसौ, एकस्यैव भावघटस्यानेनोपगमाद् । नामादिघटनिराकरणे प्रमाणम् नामादओ न कुंभा तक्कज़ाकरणओ पडाइव्व । पञ्चक्खविरोहाओ तल्लिंगाभावओ वा वि ।। २२२९ वि. ।।। नयामृतम्) PANDIDATDASTANDADADODAIनकककककका

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164