________________
भावमात्राभिधानप्रयोजकोऽध्यवसायविशेष इति एतदर्थः । तेन न अति प्रसङ्गादिदोषोपनिपातः (भावः = भावनिक्षेपः)
तत्रापि
'नामादिषु प्रसिद्धपूर्वात् शब्दात् अर्थप्रत्ययः साम्प्रतः' इति साम्प्रतलक्षणम् ।
प्रतिविशिष्टवर्तमानपर्यायापन्नेषु नामादिष्वपि गृहीतसङ्केतस्य शब्दस्य भावमात्रबोधकत्वपर्यवसायीति तदर्थः । तथात्वं च भावातिरिक्तविष्यांश उक्तसङ्केतस्याप्रामाण्यग्राहकतया निर्वहति । तज्जातीयाध्यवसायत्वं च लक्षण मिति न क्वचिदनीदृशस्थलेऽव्याप्तिः । समभिरुढाद्यतिव्याप्तिश्च अध्यवसायें विषये. वा तत्तदन्यत्वदानान्निराकरणीया ।।
सम्प्रदायेऽपि ‘विशेषिततरः ऋजुसूत्राभिमतार्थग्राही अध्यवसायविशेषः शब्दः इत्यापादितसंज्ञान्तरस्यास्य लक्षणम् ।
'इच्छइ विसेसियतरं पझुप्पण्णं णओ संद्दो' इति सूत्रम् (अनु. १५२) अत्रापि 'तर' प्रत्ययमहिम्ना विशेषिततमाधोवर्तिविषयाग्रहणान्न समभिरूढाद्यतिव्याप्तिरिति स्मर्तव्यम् ।
ऋजुसूत्राद् विशेषः पुनरस्येत्थं भावनीयः- यदुत संस्थानादिविशेषात्मा भावघट एव परमार्थसत् तदितरेषां तत्तुल्यपरिणत्यभावेनाघटत्वात् ।
अथवा लिङ्ग-वचन-सङ्ख्यादिभेदेनार्थभेदाभ्युपगमाद् ऋजुसूत्रादस्य विशेषः ।।
अस्य च उपदर्शिततत्त्वो भावनिक्षेप एवाभिमतः ।।
समभिरूढनयनिरूपणम्
१८
असङ्क्रमगवेषणपरोऽध्यवसायविशेषः समभिरूढः ।
"वत्थुओ संकमणं होइ अवत्थु गए समभिरूढे" इति सूत्रम् । “सत्स्वर्थेष्वसङ्क्रमः समभिरूढः इति” तत्त्वार्थभाष्यम् ।
नयामृतम्