________________
असङ्कमेति । तत्त्वं च यद्यपि न संज्ञाभेदेनार्थभेदाभ्युपगन्तृत्वं घटपटादिसंज्ञाभेदेन नैगमादिभिरपि अर्थभेदाभ्युपगमात्, तथापि संज्ञाभेदनियतार्थभेदाभ्युपगन्तृत्वं तत् । एवम्भूतान्यत्वविशेषणाञ्च न तत्रातिव्याप्तिः ।।
अयं खल्वस्याभिमान: यदुत-यदि शब्दो लिङ्गादिभेदेनार्थभेदं प्रतिपद्यते तर्हि संज्ञाभेदेनापि किमित्यर्थभेदं न स्वीकुरुते ? ।।
अस्याप्युपदर्शिततत्त्वो भावनिक्षेप एवाभिमतः । एवम्भूतनयनिरूपणम् :
व्यञ्जनार्थविशेषान्वेषणपरोऽध्यवसायविशेष एवम्भूतः । 'वंजण-अत्थ-तदुभयं एवंभूओ विसेसेइ' इति सूत्रम् । 'व्यजनार्थयोरेवम्भूत' इति तत्त्वार्थभाष्यम् ।
व्यज्जनेति । तत्त्वं च पदानां व्युत्पत्त्यर्थान्वयनियतार्थबोधकत्वाभ्युपगन्तृत्वं, नियमश्च कालतो देशतश्चेति न समभिरूढातिव्याप्तिरपि ।
__ अस्याप्युपदर्शिततत्त्वो भावनिक्षेप एवाभिमतः । .अयं खल्वस्य सिद्धान्तो यदुत-यदि घटवदव्युत्पत्त्यर्थाभावात् कुटपदार्थोऽपि . न घंटपदार्थस्तदा जलाहरणादिक्रियाविरहकाले घटोऽपि न घटपदार्थोऽविशेषादिति । - नन्वेवं प्राणधारणाभावात् सिद्धोऽपि न जीवः स्यादिति चेत् ? एतन्नये न स्यादेव । तदाह भाष्यकार:- .
एवं जीवं जीवो संसारी पाणधारणाणुभावा। , . . सिद्धो पुण अजीवो जीवणपरिणामरहिओ त्ति ।।२२५६।।
केचित्तु दिगम्बराः एवम्भूताभिप्रायेण सिद्ध एव जीवो भावप्राणधारणात् न तु संसारीति परिभाषन्ते । यदाहुःतिक्काले च दुपाणा इंदिय बलमाउसाणपाणे य । ववहारा सो जीवो णिच्छयओ दुचेयणा जस्स ।। द्रव्यसङ्ग्रहः ३ ।।
नयामृतम्
బడులు పలు పలు బడులు పెడు తుండ డ బ డ డ బుడు
.