________________
तच्चिन्त्यम्, एवम्भूतस्य जीवं प्रति औदयिकभावग्राहकत्वात् । सिद्धोऽप्येतन्नये सत्त्वयोगात् सत्त्वः । अतति सततमपरपर्यायान् गच्छतीत्यात्मा च स्यादेव ।।
तदेवं लक्षिताः सप्तापि नयाः ।।
एतेषु च यद्यपि क्षणिकत्वादिसाधने नित्यत्वादिपराकरणमेकान्तानुप्रवेशादप्रमाणम्, तथापि परेषां तर्क इव प्रमाणानां स्वरुचिविशेषरूपऩयानामनुग्राहकत्वाद् युज्यत इति सम्भाव्यते । तत्त्वं तु बहुश्रुता विदन्ति ॥
एतेषु च बलवत्त्वाबलवत्त्वादिविचारेऽपेक्षैव शरणम् 1
नय - परिज्ञान फलम् -
फलं पुनर्विचित्रनयवादानां जिनप्रवचनविषयरुचिसम्पादनद्वारा रागद्वेषविलय
एव ।
अत एवायं भगवदुपदेशोऽपि -
सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामित्ता ।
तं सव्वनयविसुद्धं जं चरणगुणट्टिओ साहू ।। आव. निर्यु. १०५५ ।।
चरणगुणस्थितिश्च परममाध्यस्थरूपा न राग-द्वेषविलंयमन्तरेणेति तदर्थिना तदर्थं अवश्यं प्रयतितव्यमित्युपदेशसर्वस्वम् ।।
।। इति फलग्रन्थः । ।
।। नयरहस्य प्रकरणम् ।।
२०
नयामृतम्