Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust

View full book text
Previous | Next

Page 40
________________ एवं तुल्याकृतिगुणक्रियैकप्रदेशनिर्गतागतपरमाणुषु योगिनां परस्परभेदबुद्धिहेतुरन्त्यविशेषोऽपि परमाणुभ्यो भिन्न एव, स्वस्मिन्नितरभेदबुद्धेः स्वातिरिक्तविशेषहेतुकत्वनियमाद् गोत्वादिसामान्यविशेषस्थले तथादर्शनादित्यवधेयम्। नन्वेवं द्रव्यार्थविषयं सामान्यं पर्यायार्थविषयं विशेषं चेच्छन् नैगमः साधुवदुभयनयावलम्बित्वेन सम्यग्दृष्टिः स्यादिति चेत्र, परस्परं वस्तुतश्च भिन्नसामान्यविशेषाभ्युपगन्तृत्वेनास्य कणादवत् मिथ्यादृष्टित्वात् । तदुक्तं महाभाष्ये सन्मतौ च दोहि वि णएहि णीयं सत्थमुलुयस्स तहवि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अण्णोण्णनिरवेक्खा ।। (विशे. २१९ पू. सन्म. ३-४९) - ननु यदि द्रव्यपर्यायोभयावगाही नैगमस्तदा 'आद्यास्त्रयो द्रव्यार्थिका अन्त्याश्चत्वारः पर्यायार्थिकाः' इति सिद्धसेनाचार्याणां 'आद्याश्चत्वारो द्रव्यार्थिका अन्त्यास्त्रयः पर्यायार्थिकाः' इति जिनभद्रगणिक्षमाश्रमणपूज्यपादानां च विभागवचनं व्यान्येत नैगमस्योभयान्तःपातित्वेन पर्यायार्थिकाधिक्यात् । न चोभयविषयकत्वेऽपि द्रव्यांशे प्राधान्येनास्य द्रव्यार्थिकत्वमेवेति वाच्यम्, पर्यायांशेऽपि क्वचिदस्य प्राधान्यदर्शनात् । त्रिविधो ह्ययमाकरादावुदाह्रियते धर्मयोधर्मिणोः धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन विवक्षणात् । तत्र .. 'सञ्चैतन्यमात्मनि' (प्रमा. ७-८) इत्याद्यो भेदः । अत्र चैतन्याख्यस्य धर्मस्य . विशेष्यत्वेंन प्राधान्यात्, सत्ताख्यधर्मस्य तु विशेषणत्वेनोपसर्जनभावात् । 'वस्तु .पर्यायवद् द्रव्यम्' (७-९) इति द्वितीयो भेदः वस्त्वाख्यधर्मिणो विशेष्यत्वेन प्राधान्यात् पर्यायवद्रव्यस्य तु विशेषणत्वेनोपसर्जनभावात् । 'क्षणमेकं सुखी .:. विषयासक्तो जीवः' (७-१०) इति तृतीयो भेदः । अत्र विषयासक्तजीवाख्य धर्मिणो विशेष्यत्वेन मुख्यत्वात् सुखलक्षणधर्मस्य तु विशेषण त्वेनोपसर्जनत्वात् । इत्थं चात्र धर्मप्राधान्ये पर्यायप्राधान्यात् पर्यायार्थिकत्वमपि दुर्निवारमिति चेत्, सत्यं, द्रव्यपर्यायोभयग्राहित्वेऽपि नैगमस्याधिकृतवस्तुनि द्रव्यपर्यायान्यतरात्मकत्वजिज्ञासायां द्रव्यांशाप्रतिक्षेपेणैव द्रव्यार्थिकत्वनिर्धारणात् सामान्यरूपस्यास्य सङ्ग्रहे विशेषरूपस्य च व्यवहारेऽन्तर्भावपक्षे व्यवहारस्यापि नयामृतम् LASTANTARATDADDROICE कामकाजकज्ज न

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164