________________
एवं तुल्याकृतिगुणक्रियैकप्रदेशनिर्गतागतपरमाणुषु योगिनां परस्परभेदबुद्धिहेतुरन्त्यविशेषोऽपि परमाणुभ्यो भिन्न एव, स्वस्मिन्नितरभेदबुद्धेः स्वातिरिक्तविशेषहेतुकत्वनियमाद् गोत्वादिसामान्यविशेषस्थले तथादर्शनादित्यवधेयम्।
नन्वेवं द्रव्यार्थविषयं सामान्यं पर्यायार्थविषयं विशेषं चेच्छन् नैगमः साधुवदुभयनयावलम्बित्वेन सम्यग्दृष्टिः स्यादिति चेत्र, परस्परं वस्तुतश्च भिन्नसामान्यविशेषाभ्युपगन्तृत्वेनास्य कणादवत् मिथ्यादृष्टित्वात् । तदुक्तं महाभाष्ये सन्मतौ च
दोहि वि णएहि णीयं सत्थमुलुयस्स तहवि मिच्छत्तं ।
जं सविसयप्पहाणत्तणेण अण्णोण्णनिरवेक्खा ।। (विशे. २१९ पू. सन्म. ३-४९) - ननु यदि द्रव्यपर्यायोभयावगाही नैगमस्तदा 'आद्यास्त्रयो द्रव्यार्थिका अन्त्याश्चत्वारः पर्यायार्थिकाः' इति सिद्धसेनाचार्याणां 'आद्याश्चत्वारो द्रव्यार्थिका अन्त्यास्त्रयः पर्यायार्थिकाः' इति जिनभद्रगणिक्षमाश्रमणपूज्यपादानां च विभागवचनं व्यान्येत नैगमस्योभयान्तःपातित्वेन पर्यायार्थिकाधिक्यात् । न चोभयविषयकत्वेऽपि द्रव्यांशे प्राधान्येनास्य द्रव्यार्थिकत्वमेवेति वाच्यम्, पर्यायांशेऽपि क्वचिदस्य प्राधान्यदर्शनात् । त्रिविधो ह्ययमाकरादावुदाह्रियते
धर्मयोधर्मिणोः धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन विवक्षणात् । तत्र .. 'सञ्चैतन्यमात्मनि' (प्रमा. ७-८) इत्याद्यो भेदः । अत्र चैतन्याख्यस्य धर्मस्य . विशेष्यत्वेंन प्राधान्यात्, सत्ताख्यधर्मस्य तु विशेषणत्वेनोपसर्जनभावात् । 'वस्तु .पर्यायवद् द्रव्यम्' (७-९) इति द्वितीयो भेदः वस्त्वाख्यधर्मिणो विशेष्यत्वेन
प्राधान्यात् पर्यायवद्रव्यस्य तु विशेषणत्वेनोपसर्जनभावात् । 'क्षणमेकं सुखी .:. विषयासक्तो जीवः' (७-१०) इति तृतीयो भेदः । अत्र विषयासक्तजीवाख्य
धर्मिणो विशेष्यत्वेन मुख्यत्वात् सुखलक्षणधर्मस्य तु विशेषण त्वेनोपसर्जनत्वात् । इत्थं चात्र धर्मप्राधान्ये पर्यायप्राधान्यात् पर्यायार्थिकत्वमपि दुर्निवारमिति चेत्, सत्यं, द्रव्यपर्यायोभयग्राहित्वेऽपि नैगमस्याधिकृतवस्तुनि द्रव्यपर्यायान्यतरात्मकत्वजिज्ञासायां द्रव्यांशाप्रतिक्षेपेणैव द्रव्यार्थिकत्वनिर्धारणात् सामान्यरूपस्यास्य सङ्ग्रहे विशेषरूपस्य च व्यवहारेऽन्तर्भावपक्षे व्यवहारस्यापि
नयामृतम्
LASTANTARATDADDROICE कामकाजकज्ज न