________________
द्रव्यार्थतायाश्चिन्त्यत्वापत्तेः । निर्णीते च स्वस्वान्यविषयप्रतिक्षेपेणैव द्रव्यपर्यायग्राहिणो द्रव्यार्थिकत्व-पर्यायार्थिकत्वे नियुक्तिभाष्यादौ ।
तदेवं द्रव्यार्थिकः पर्यायं प्रतिक्षिपति पर्यायार्थिकस्तु द्रव्यं, इति द्रव्यांशाप्रतिक्षेपानगमो द्रव्यार्थिक इति व्यवस्थितम् । न च तथा तज्जातीयेन पर्यायाप्रतिक्षेपात् पर्यायार्थिकत्वमपि स्यादिति वाच्यं यज्जात्यवच्छेदेन द्रव्याप्रतिक्षेपित्वं तज्जातीयस्य तन्नयत्वं इत्येवं परिभाषणात् । _ वस्तुतः क्षणिकत्वादिविशेषणशुद्धपर्यायं नैगमो नाभ्युपगच्छत्येवं, किञ्चित्काल स्थायि-अशुद्धतदभ्युपगमस्तु सत्तामहासामान्यरूपद्रव्यांशस्य घटादिसत्तारूपविशेषप्रस्तारमूलतया शुद्धद्रव्याभ्युपगम एव पर्यवस्यतीति न पर्यायार्थिकत्वं तस्य । अत एव सामान्यविशेषविषयभेदेन सङ्ग्रहव्यवहारयोरेवान्तर्भावेन शुद्धाशुद्धद्रव्यास्तिकायोऽयमिष्यते इति
दव्वष्टियनयपयडी सुद्धा संगहपरूवणाविसओ।
पडिरूवे पुण वयणत्थणिच्छओं तस्स ववहारो ।। १-४।। इति सन्मतिगाथायां पृथङ्नोदाहृतः । ।
अत्र नैगमो न पृथग् जगृहे सङ्ग्रहव्यवहारविषयातिरिक्ततद्विषयासिद्धेरिति । येषां तु मते पृथङ्नैगमनयो विद्यते ते प्रतिपतृभेदान्नाना तदभिप्रायं वर्णयन्ति । यतः केचिदाहु: 'पुरुष एवेदं सर्वं' ( पुरुषसूक्त) इत्यादि । यदाश्रित्योक्तम्
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ।। गीता १५-१।। पुरुषोऽप्येकत्वनानात्वभेदात् कैश्चिदभ्युपगतो द्वधा, नानात्वेऽपि तस्य कर्तृत्वाकर्तृत्वभेदः परैराश्रितः, कर्तृत्वेऽपि सर्वगतेतरभेदः, असर्वगतत्वेऽपि शरीरव्याप्यव्यापिभ्यां भेदः, व्यापित्वेऽपि मूर्तेतरविकल्पाद् भेद एव । अपरैस्तु प्रधानकारणकं जगदभ्युपगतं, तत्रापि कैश्चिद् सेश्वरनिरीश्वरभेदोऽभ्युपगतः । अन्यैस्तु परमाणुप्रभवमभ्युपगतं जगद् तत्रापि सेश्वरनिरीश्वरभेदाद् भेदोऽभ्युपगत एव । सेश्वरपक्षेऽपि स्वकृतकर्मसापेक्षत्वानपेक्षत्वाभ्यां तदवस्थ एव
५AGOCHADAIक
नजनकटकर