________________
भेदाभ्युपगमः । कैश्चित् स्वभावकालयदृच्छादिवादाः समाश्रिताः, तेष्वपि सापेक्षत्वानपेक्षत्वाभ्यां भेदव्यवस्थाभ्युपगतैव । तथा कारणं नित्यं कार्यमनित्यं इत्यपि द्वैतं कैश्चिदभ्युपगतम् । तत्रापि कार्यं स्वरूपं नियमेन त्यजति न वेत्ययमपि भेदाभ्युपगमः । एवं मूतैरेव मूर्तमारभ्यते, अमूर्तरमूर्त, मूतैरमूर्त अमूर्तेर्मूर्तम् इत्यनेकधा निगमार्थः सन्मतिवृत्तौ व्यवस्थितः ।
एतनयमालम्ब्य वैशेषिकदर्शनं प्रवृत्तम् । एवं नैयायिकदर्शनमपि, प्रायः समानत्वाद् द्वयोरिति । सङ्ग्रहनयनिरुपणम् :
सङ्ग्रहणं सामान्यरूपतया सर्ववस्तूनामाक्रोडनं सङ्ग्रहः । सङ्ग्रह्णाति सामान्यरूपतया वा सर्वमिति वा सङ्ग्रहः । -- ‘सङ्ग्रहीतपिण्डीतार्थं सङ्ग्रहवचनं' इत्यागमः । .. अस्यार्थः- सङ्गृहीतः सामान्याभिमुखेन गृहीतः, पिण्डीत:- एकजातिमानीतः । । यद्वा- सङ्गृहीतः=अनुगमविषयीकृतः, पिण्डीतः निराकृतपराभिमतव्यतिरेकः । यद्वा- सङ्ग्रहीत:-सत्ताख्यमहासामान्यभावमापन्नोऽर्थोः यस्य तत्तथा सङ्ग्रहवचनं । 'अन्तःक्रोडीकृतसर्वविशेषस्य सामान्यस्यैव तेनाभ्युपगमात् । 'सद्' इत्येवं भणिते सर्वत्र भुवनत्रयान्तर्गते वस्तुनि बुद्धरनुधावनात् । घटपटादीनां हि भावान्यत्वे खरविषाणप्रख्यत्वं तदनन्यत्वे च सामान्यैकपरिशेष एव न्याय्य इति । यन्महाभाष्यकृत्-. .. ..
कुम्भो भावाणनो जइ तो भावो अहनहाभावो । .:.'. एवं पड़ादओ वि. भावाणन्नत्ति तम्मतं ।।
चूओ विणस्सइ छिय मूलाइगुणोत्ति तस्समूहो वा । गुम्मादओ वि एवं सब्वे न वणस्सइविसिट्ठा ।। विशे. २२०८-१०।। अत एव यत्र विशेषक्रिया न श्रूयते तत्रास्ति-भवतीत्यादिका प्रयुज्यते इति शाब्दिकाः । सत्तायाः सर्वपदार्थाव्यभिचारात् । यदेव च सर्वाव्यभिचाररूपं तदेव
नयामृतम्।
२७ LASTICE STESTAURATIOकाज कज्य