________________
यदि चाभ्युदयहेतुतया पुण्यस्य तत्प्रतिपक्षतया पापस्यापि च पृथग् निरुपणमावश्यकं तदाभ्युदयनिःश्रेयसहेतुप्रवृत्त्यनुकूलज्ञानविषयतया जीवाजीवादयो नवैव पदार्थाः निरूपणीयेति परममुनिसिद्धान्तसरणिः ।
अथ किमेतेषु भावाभावादिशबलैकरूपत्वम् ? उच्यते विषयतया भावाभावाद्याकारबुद्धिजनकपरिणामद्वयतादात्म्यापन्नजात्यन्तरैकधर्मित्वम् । अस्ति कस्य जीवाजीवादेः स्व-परद्रव्यादिनिबन्धनो भावाभावादिरूपो द्विविधः परिणामः, यद्बलात् तत्र ‘अस्ति' 'नास्ति' इति प्रत्ययद्वयमुपजायते । तदेवं व्यवस्थितं जीवाजीवादीनां विचित्रभावाभावादिशबलैकरूपत्वम् ।।
अथ के ते नयाः ? यैः प्रतिनियतधर्मग्रह इति ? उच्यतेनैगम-सङ्ग्रह-व्यवहारर्जुसूत्र - शब्द - समभिरूढैवम्भूता नया:
नैगमनयनिरूपणम्
तत्र नैकैः- प्रभूतैः मानै:- महासामान्यावान्तरसामान्यविशेषज्ञानलक्षणैः, मिनोति मिमीते वा निरुक्तविधिना वर्णविपर्ययान्नैगमः । वर्णविपर्ययः ककारस्थाने गकारः । यदुक्तम्
वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ।।
अथवा लोकार्थनिबोधाः- निगमाः तेषु भवः कुशलो वा नैगमः ।
अयं च महासामान्यादिषु क्रमेण सर्वाविशुद्धो, विशुध्दाविशुद्धो विशुध्दश्च ज्ञातव्यः । एवं प्रस्थकाद्युदाहरणेष्वपि सिद्धान्तसिद्धेषु भावनीयम् । एवं घटादिष्वपि कार्यकारणयोरवयवावयविनोरन्यप्रकारेण चोपचारानुपचाराभ्यां अविशुद्ध-मध्यमविशुद्धभेदाः भावनीयाः, एतद्व्युत्पत्त्यर्थमेव प्रस्थकादिदृष्टान्तोपदेशात् ।
अस्मिन्नये विशेषेभ्योऽन्यदेव सामान्यम्, अनुवृत्तिबुद्धिहेतुत्वात् । सामान्याच्चान्ये एव विशेषाः व्यावृत्तिबुद्धिहेतुत्वात् । एवमाश्रयादपि भिन्नव सामान्यं, अन्यथा व्यक्तिवत् साधारण्यानुपपत्तेः ।
२४
नयामृतम्