________________
.तत्त्वेषु भावाभावादिशबलैकरूपत्वम् । ... कानि तत्त्वानीति चेत् ? तत्रेदं तत्त्वार्थ-महाशास्त्रसूत्रम्
"जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम्" (१-४) (१) जीवा:- औपशमिकादिभावान्विताः । (२) अजीवा:- धर्मादयश्चत्वारोऽस्तिकायाः । (३) आश्रूयते गृह्यते यैः कर्म ते आश्रवाः, शुभाशुभकर्मादानहेतव इत्यर्थः । . (४) बन्धो नाम आश्रवात्तकर्मण आत्मना सह प्रकृत्यादिविशेषतः संयोगः । (५) आश्रवनिरोधहेतुः संवरः । (६) विपाकात् तपसो वा कर्मणां शाटो निर्जरा । - (७) सर्वोपाधिविशुद्धात्मलाभो मोक्षः । "इत्येष सप्तविधोऽर्थस्तत्त्वम्, एते वा सप्तपदार्थास्तत्त्वानि" इति भाष्यकारः ।
ननु कथं सप्तैव तत्वानि ?, पुण्यपापयोरप्यधिकयोः सत्त्वादिति, चेन बन्ध एव तयोरन्तर्भावमभिप्रेत्य भेदेनानभिधानात् । - हन्त ! तर्हि 'जीवाजीवास्तत्त्वम्' एतावदेव वाच्यं स्यात्, आश्रवादीनां पञ्चानां जीवाजीवयोरभिन्नत्वात्, तथा हि- आश्रवो मिथ्यादर्शनरूपः परिणामो जीवस्य, स च क आत्मानं पुद्गलांश्च विहाय ?; बन्धश्चात्मप्रदेशसंश्लिष्टकर्मपुद्गलात्मकः, संवरोऽप्यात्मन एवाश्रवनिरोधलक्षणो देश-सर्वनिर्वृतिपरिणामः । निर्जरा तु पार्थक्यापनजीवपुद्गलदशैव । मोक्षोऽपि समस्तकर्मरहित आत्मैवेति चेत्, इदमित्थमेव, किन्त्विदं शास्त्रं मुमुक्षुशिष्यप्रवृत्तये, सा च मुक्ति-संसारयोः कारणयोर्भदेनाभिधानं विना न स्यादित्याश्रवो बन्धश्चेति द्वयं मुख्यं संसारकारणं, संवरो निर्जरा चेति द्वयं मुख्यं मोक्षकारणमुपात्तं, यत्तु मुख्यं प्रयोजनं मोक्षो यदर्थाः सर्वाः प्रवृत्तयः स कथं न प्रदर्यत ? इति युक्तं पञ्चानामप्युपादानम् । तदेवं जीवाजीवादीनि सप्तैव तत्त्वानीति स्थितम् ।।
(नयामृतम् ।
బ
డులు పెడతాడు బల పడడం.