Book Title: Nayamrutam
Author(s): Vairagyarativijay
Publisher: Bherulalji Kanaiyalalji Kothari Religious Trust
View full book text
________________
'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः' इति तत्त्वार्थभाष्यम् ।
लौकिकेति । विशेषप्रतिपादनपरमेतत् । यथा हि लोको निश्चयतः पञ्चवर्णेऽपि भ्रमरे कृष्णवर्णत्वमङ्गीकरोति तथायमपीति ।
लौकिकसम इति । कुण्डिका स्रवति, पन्थाः गच्छतीत्यादौ बाहुल्येन गौण प्रयोगाद् उपचारप्रायः विशेषप्रधानत्वाञ्च विस्तृतार्थ इति ।
अयमपि सकलनिक्षेपाभ्युपगमपर एव । ऋजुसूत्रनयनिरूपणम् :
'प्रत्युत्पन्नग्राही अध्यवसायविशेष ऋजुसूत्रः' । पचुप्पण्णग्गाही उजुसूओ णयविही मुणेयव्यो ।। इति सूत्रम् (अनु. १५२)
प्रत्युत्पन्नग्राहित्वं च भावत्वेऽतीतानागतसम्बन्धाभावव्याप्यत्वोपगन्तृत्वं, नातोऽतिप्रसङ्गः ।
'सतां साम्प्रतानामभिधानपरिज्ञानं ऋजुसूत्र' इति तत्त्वार्थभाष्यम् (१-३५)
व्यवहारातिशायित्वं लक्षणमभिप्रेत्य तदतिशयप्रतिपादनार्थमेतदुक्तम् । • व्यवहारो हि सामान्य व्यवहारानङ्गत्वान्न सहते, कथं तर्हि अर्थमिति परकीयं - अतीतमनागतं चाप्यभिधानमपि तथाविधार्थवाचकं ज्ञानमपि च तथाविधार्थविषयमविचार्य ' सहेत ? इत्यस्याभिमानः ।
अस्यापि चत्वारो निक्षेपा अभिमताः । ... द्रव्यनिक्षेपं नेच्छत्ययमिति वादिसिद्धसेनमतानुसारिणः, तेषामुक्तसूत्रविरोधः । न चोक्त एव तत्परिहार एतन्मतपरिष्कार इति वाच्यम्, नामादिवदनुपचरितद्रव्यनिक्षेपदर्शनपरत्वादुक्तसूत्रस्य तदनुपपत्तेः । अधिकमन्यत्र ।। शब्दनयनिरूपणम् :
आदेशान्तरे "यथार्थभिधानं शब्द" इति त्रयाणां लक्षणम् । ..
नयामृतम्
"
ఎల ఎల ఎల
ల
డ
డ
బ
బ
ప
ల
ల
డ
ల ప
ర
.
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1fceed7437b633d6e127d33adfdc48ae1ed31ea0736b083ca6f2203687701597.jpg)
Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164