Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 4
________________ वाचकानां प्रतिभावः सहचिन्तनम् संस्कृता कीर्तित्रयी, नमो गुरुभ्यः । सादरं प्रणतयः । नन्दनवनकल्पतरोः त्रिंशी शाखा सम्प्राप्ता । स्वागतपूर्वकं प्रार्थ्यन्ते धन्यवादाः । अत्र प्रास्ताविके कृतः निर्देशः, भारतीय संस्कृत्याः चिरन्तनत्वस्य कारणान्वेषणार्थं ददाति सङ्केतम् । मूलतः अस्माकं संस्कृतिः नित्यनूत्ना, अत एव सनातनी च । अपरं च, मनसः एव शिक्षणं केन्द्रीभूतमस्ति अस्मद्देशे । सर्वासां प्रवृत्तीनां केन्द्रीभूतं मनः । एकतो बन्धार्थम्, अन्यतश्च मोक्षार्थमपि साहाय्यकं मन एव । सत्यमिदमुररीकृत्य, महान्तः सर्वे साधवः, मनसः प्रवृत्तिमेवाऽवलोकयन्ति । सर्वे ते, जागृततयैवं कुर्वन्ति, एवं कर्तुमन्यान्प्रेरयन्ति च । फलतः, भारतस्य भारतीयताऽस्खलिता । जाते आक्रमणेऽपि न नाशस्तस्याः । साम्प्रते समये, प्रचारमाध्यमानां विकृतिः, नग्नत्वम्, अर्थलोलुपत्वम्, च तथा प्रभावकं जातमस्ति, यथा मनोविकृति: प्रबला भवेत् । मनसि प्रदूषिते विकृतिमापन्ने वा सति, चौर्यम्, अत्याचार, अनाचार, अनियन्त्रितस्य कामस्याऽऽक्रमणं, व्यभिचारः, इत्यादिकं सम्भवति । प्रभावकैः सुज्ञैराचार्यैः प्रयत्नः करणीयः एतेषां माध्यमानां नियन्त्रणार्थं शुद्ध्यर्थं च । यदि व्यापके माध्यमे, शुद्धिः संस्कारमत्त्वं च स्यात् तर्हि जनसाधारणेऽपि शनैः शनैः विकाराभावो भविष्यति । किन्तु .को नाम प्रवृत्तः स्यात्तदर्थं, यदाऽर्थोपार्जनेऽन्धत्वं, स्वार्थ- पटुत्वं, प्रतिष्ठा - परकत्वं च प्रबलम् ? देव एव जितेन्द्रिय: सहायको भवेत् समेषां शुद्ध्यर्थं, संस्कृति - संस्काररक्षणार्थं च । साधवः सिद्धिमन्तश्चोदारमनसा शुभम् । नम्रत्वेनाऽऽदिशन्त्येव, तेनाऽस्त्याशा समुज्ज्वला ॥ अस्तु, डॉ० वासुदेव: पाठकः 'वागर्थः ' अमदावादः

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 120