Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 8
________________ भवद्भिः सम्पादिता नन्दनवनकल्पतरोरेकादशी शाखा प्राप्ता । यथा यथाऽहं पठामि तथा तथा मम भाव उल्लसितो भवति । युष्माकमिदं कार्यं नूतनसंस्कृतशिक्षितानां कृतेऽतीवोपयुक्तमवश्यमेव भविष्यति । अस्यां शाखायां काव्यानि त्वद्भुतानि सन्ति । कथादिकमपि बालादीनां कृते उपयोगाय भविष्यति । युष्माकमेष यत्नः सफलो भवत्विति मेऽभिलाषा । मुनिभाग्यचन्द्रविजयः वाचकानां प्रतिभावः नन्दनवनकल्पतरोरवलोकनेनैव तद्दिव्यं स्वतः प्रमाणं सौन्दर्य पाठकचित्तमञ्जसा ह्यावर्जयतीति नाविदितं त्वधुना गुणैकपक्षपातानां संस्कृतसाहित्यसहृदयानाम् । कर्मणा भारतीयदर्शनच्छात्रस्तदध्यापकश्चास्मि । कल्पतरुलेखेषु तत्र तत्र दर्शनबीजानि सदङ्कराणि समवेक्ष्य समवधानशीलो बुभूषामि। अन्ते श्रीमद्भयो मुनिवरेभ्यः श्रीविजयशीलचन्द्रसूरिमहाभागेभ्यः प्रणामाञ्जलिनिवेदनपुरःसरं विरमामि । भवतां श्रेयःकुशलक्षेमम् अर्हति भगवति प्रार्थयमानो । भवदीयः सुरेन्द्रमोहनमिश्रः कुरुक्षेत्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 122