Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 50
________________ - - - सुभाषितानि शास्त्री व्रजलाल उपाध्यायः नीतिर्नूलाऽपि कल्प्येत, रक्षणे शस्त्र-शास्त्रयोः । नाऽस्ति चैक विधः कालो, रक्ष्यं तु द्वितयं नरैः ॥१॥ मङ्गलं राजपुण्येन, ज्ञानमाचार्यपुण्यतः । ___ तीने पुण्यद्वये शुद्धे, पृथ्वीभाग्योदयो भवेत् ॥२॥ शस्त्रं नीत्या च संत्यक्तं, प्रामाण्येन च पुस्तकम् । तत्क्षुरं तद् बुक्कमिति तत्तत् तत्त्वविदो विदुः ॥३॥ __ यत्र कुत्रापि भोजोऽस्ति, कालिदासोऽपि कुत्र वा । सारस्वतरसास्वाद-लम्पटस्तत्र नन्दतु ॥४॥ यत्र कुत्रापि देवोऽस्तु, तद्गुणाः सन्तु मे हृदि । हृद्यगन्धे समालब्धे, किं पुष्पं दूरमुच्यते ॥५॥ आन्दोलयन्ति महतां, शिरांसि श्रुतिगोचराः । श्रूयन्ते ते गुणा नूनं, क्याचिद् भाग्यसम्पदा ॥६॥ ब्राह्मणानां मुख्ने लक्ष्मी-र्बाहौ क्षत्रकुलस्य च । वैश्यजात उरौ लक्ष्मी-श्चमस्य च पादयोः ॥७॥ राजा तु पितरं शास्ति, पिता शास्ति च बालकान् । आचार्यस्वितयं शास्ति, धर्मो लक्ष्मीः स्थिरा यतः ॥८॥ अन्यथा देशधर्माणां, कुलधर्मस्य संक्षये । तेजोहीनं मानुषत्वं, पशुतासमतामियात् ॥९॥ क्षत्रियाणां महाभाग्यं, प्रजाभाग्यनिरीक्षणम् । प्रजानां तन्महाभाग्यं, राजभाग्यनिरीक्षणम् ॥१०॥ Jain Education International For Privateşlersonal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122