Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 102
________________ वन्थसमीक्षा लेखक: प्रकाशक: स्वामिश्रीब्रह्मानन्देन्द्रसरस्वती श्रीब्रह्मानन्दाश्रमः, योगवेदान्तमहाविद्यापीठम्, पो. कल्मने ता. सागरः जि. शिवमोग्गा, कर्णाटकराज्य - प्रकाशनवर्षम् ऐसवीयम् - २००३ पृष्ठानि ३३० बाटकसुधावहिणी - Jain Education International ५७७४०१ मूल्यम् : १५०/ "नाटकान्तं साहित्यम्" इति सूक्ति: साहित्ये नाटकं श्रेष्ठमिति वर्णयति । तथा " त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम् ॥" इति श्लोकार्थं च साहित्यप्रकारेषु नाटकानां श्रेष्ठतां प्रतिपादयत्, नवरसनिभृतं सत्त्वादिगुणविशिष्टं जनचरितं मनोज्ञतयाऽत्रैव निरूप्यतेऽतो नूनं समस्तरसिकजनरोचकं नाटकमेकं विशिष्टं समाराधनमिति ख्यापयति । कीर्तित्रयी ग्रीक्- साहित्ये सोफोक्लीस्-यूरेपिडीस्-इत्यादिभिर्महाकविभिर्होमर्-विरचितयोः ईलियड्-ओडेस्सीमहाकाव्ययोराधारेण दुःखान्तानि नाटकानि (Tragedies) विरचितानि । तथा भारतेऽपि संस्कृतसाहित्ये रामायण-महाभारतादिमहाकाव्यप्रभावितानि सुखान्तप्रधानानि भावरूपकाणि भासकविप्रभृतिभिर्विरचितानि । एवमेवाग्रेऽपि बहूनि मृच्छकटिकं प्रबुद्धरौहिणेयं द्रौपदीस्वयंवरमित्यादीनि नाटकानि विविधकविभिर्विरचितानि विश्रुता बभूवुः । अस्यामेव नाट्यप्रणयनपरम्परायां स्वामिश्रीब्रह्मानन्देन्द्रसरस्वतीमहाभागः महाभारतमाश्रित्य प्रणीतानि विविधरूपकाणि, ऐतिहासिकप्रसङ्गानाधारीकृत्य प्रणीते द्वे रूपके, सोफोक्लीस् - शेक्स्पियप्रभृतिपाश्चात्यनाट्यकारविरचितनाटकानामाधारेण प्रणीते द्वे रूपके तथा अहिंसा - प्रेम-भक्ति-विवेक वैराग्य - नि:स्पृहता- कपट - स्वार्थादिभावानधिकृत्य For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122