Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 104
________________ मुक्तावली भावापत्त्यलङ्कार-लक्षणोक्त्यलङ्कारयोऽनयोनिरूपणं करोति । अन्ये च सर्वेऽपि र प्रबन्धाः विविधसामाजिक-धार्मिक-मानवीयविचारान् रोचकतया प्रकटीकुर्वन्ति । सरलभाषया रोचकशैल्या च प्रौढविचारान् धाराबद्धप्रवाहेण प्रकटयन् स्वामिश्रीब्रह्मानन्देन्द्र-सरस्वतीमहाभागः विविधशास्त्रेषु परिणतबुद्धिरस्ति तथाऽपि मुख्यतया का योग-वेदान्तान् अध्यापयति । न केवलं संस्कृतभाषायामपि तु कन्नड-तेलुगुभाषयोरपि का बहून् ग्रन्थान् लिखितवान् स्वामिवर्यः सङ्गीतशास्त्रेऽपि परिणतः । स्वामिवर्यस्य बहुश्रुतत्वं प्रतिनाटकं प्रतिप्रबन्धं चाऽत्र पुस्तके संदृश्यते । रसिकसहृदयेभ्यः विद्वद्भयश्चाऽऽध्यात्मिकानि शीलसच्चारित्र्यसंवर्धकानि जीवन| मौल्यान्येकत्रोपहारीकुर्वन्ती प्रबोधपारिजातसहितां नाटकसुधातरङ्गिणी विरचितवान् स्वामिश्रीब्रह्मानन्देन्द्रसरस्वतीमहाभागः नूनमभिनन्दनार्हः । ग्रन्थाश्चाऽयं सर्वेषां संग्राह्यो वर्तते । तथाऽत्र निरूपितानि भावरूपकाण्यपि रङ्गमञ्चेऽभिनययोग्यानि सन्तीति शम् । a danmassadomo886gp ROIRSSIB85745855555778512851858785878775158511857 Dawoosempegpoegppegnponomopawoonawoongwooasponsentagesap आरोग्यबुद्धिविनयोद्यमशास्त्ररागः पञ्चाऽऽन्तराः पठनसिद्धिकरा नराणाम् । आचार्यपुस्तकनिवाससहायभिक्षाः बाह्याश्च पञ्च पठनं परिवर्धयन्ति ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122