Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ दूरीकर्तव्या: । ये जनाः पवित्रनिर्देशानवगणय्य 'पशून् छित्वा भक्षणं विधास्यामः' इति दुष्ट विचारणया चतुष्पदान् तृणजलादिभिः पोषयन्ति ते जनाः क्यामत इति नाम्ना विदिते तदीयमान्ये पुण्यपापन्यायदिवसे पापान् मोचयितुम् अशोमरदोनामकं तदीयपरमेश्वरं प्रार्थयिष्यन्ते, न तु प्रार्थना स्वीकरिष्यते । इति पारसिकधर्ममान्ये इस्त्रेनामकग्रन्थे । I तथा - रावजीवोरा जातीया ये प्रसिद्ध्या लोटीयावोरा उच्यन्ते । तेषां ग्रन्थे गदितम् “फला तज अलू बुतून कुम मकावरल हयवानात" । अर्थः- पशुपक्षिकलेवराश्रयत्वं तवोदरं न कुर्याः । अर्थात् पशुपक्षिणो हत्वा नाऽत्स्यतीति । तथा - "व मिनल अनआमे हम् लतं व फर्शा । कुलूमिम्मारजक - कुमुल्लहो" । अर्थः- अल्लानामेश्वरेण चतुष्पदेषु कतिचिद् भारोद्वहनाय सृष्टाः । भक्षणाय च भूमिसंगतवनस्पतिधान्यादि सृष्टम्, तद् यूयमद्यातं । इति महम्मदीयधर्मे कुरानेशरीफनामग्रन्थे । एवं कुरानेशरीफनामग्रन्थ एव स्पष्टतया रुधिरमांसभक्षणनिषेध उक्तः । तथा च बकरीईद इति नामके तदीयमान्यदिवसेऽपि अजावधनिषेधः कथितोऽस्तीति । तथा "Thou Shalt not kill (Advice to moses)" || अर्थः- त्वं न कमपि जीवं हन्याः । Jain Education International - इति बाइबलनामकग्रन्थे । एवं सर्वेषु ग्रन्थेषु हिंसानिषेधोऽस्त्येव । सत्यमेतद्, किन्तु तत्राऽहिंसायाः स्वरूपनिरूपणे तारतम्यं वर्तते । तत्र प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा | इति बौद्धा आहुः । For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122