Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
- राजभिश्च तां परम्परामनुसृत्य बलिरदीयत । किन्तु श्रीहेमचन्द्रसूरीश्वरस्योपदेशात् । * श्रीकुमारपालेनाऽनन्यश्रद्धयाऽऽत्मनिष्ठया चैषा प्रणालिकाऽवरुद्धा, तथा चाऽसङ्ख्येभ्यो **
जीवेभ्योऽभयदानं दत्तम् । एवं तस्मिन् काले महोत्सवादिकार्यक्रमेषु प्रवर्तमाना * देवबलिरूपा मांसादिभोजनस्य प्रणालिका च निषिद्धा । तथाऽष्टादशसु राज्येषु 'अमारिघोषणा' उद्घोषिता। बहवः सूनकपरिवाराः सूनागृहव्यापाराद् विमोच्याऽन्यव्यापारेषु नियोजिताः । तदा सूक्ष्मजीवस्य हिंसाऽपि राज्यापराधत्वेन परिगण्यन्ते स्म, तान्यप्राणिनां मनुष्याणां च हिंसायाः का वार्ता ? एतादृशी नीतिस्तदा प्रावर्तत । एवमाचार्येण कुमारपालोऽहिंसायां प्रवर्तितः । ततश्च ग्रन्थेषु श्रीहेमचन्द्रसूरिणः प्रशस्ति: कृताऽस्ति । प्रोक्तं च- सप्तर्षयोऽपि सततं गगने चरन्तो मोक्तुं क्षमा न हि मृगी मृगयोः सकाशात् । नि
जीयादसौ चिरतरं प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः ॥
पश्चात् षोडश्यां शताब्दयां 'जगद्गुरु'बिरुदालङ्कृतः पूज्यः श्रीहीरसूरीश्वरोऽस्मिन् जगत्यवातरत् । अस्मादृशानां निःसत्त्वजीवानां कृते तेन गुरुणाऽहिंसाया माहात्म्यं भारते यथा प्रस्थापितं तस्य वर्णनं तु दूरे, कल्पनाऽप्यशक्याऽस्ति । यदा देशस्य राजा मुसलमीनो भवेत्, सोऽपि हिन्दूनामात्यन्तिको विरोधी स्यात्, तत्कालीना राज्यस्थितिश्चाऽपि हिन्दुत्वस्य प्रतिपक्षिणी स्यात्, यस्मिन् काले हिन्दूनां पवित्रस्थानानां खण्डनस्य परम्परा दृश्यमाना स्यात्, सदा विधर्मिभिर्धर्मान्तरं क्रियमाणं स्यात्, एवं सर्वत्र हिंसायाः ताण्डवमेव दृश्यमानं स्यात्, तादृशे कालेऽहिंसायाः प्रतिष्ठा त्वतीव दुष्करा । तथाऽपि तेन श्रीहीरसूरिगुरुणा परमधर्मनिष्ठयाऽपूर्वसत्त्वबलेन चाऽतिक्रूरहिंसक-मुसलमीनसम्राजोऽकब्बरस्य द्वारैवाऽऽर्यदेशेऽस्मिनहिंसायाः पालनं कारितम् । ' एतत्तु कलियुगस्याऽस्यैकं महदाश्चर्यमस्ति ।
अकब्बरराज्ञः शासने हिंसायाः प्रामाण्यमुत्कृष्टतया प्रवर्तते स्म । स हिंसाप्रेमी निष्करुणः क्रूरो निष्ठुरश्चाऽऽसीत् । ततः केषाञ्चिदपि जीवानां पीडने तस्य राजश्चित्ते. महानानन्दो जायते स्म, तृप्ति चाऽनुभवति स्म सः । यदा स मृगयार्थं वनं गच्छेत्तदा स लक्षाधिकप्रमाणान् जीवान् हन्ति स्म । तेन 'डाबरे'त्यभिधानं सरः कारितम्, तत्राऽनेकेषां मत्स्यादिजीवानां प्रतिदिनं हिंसा प्रवर्तमानाऽऽसीत् । स प्रतिदिनं केवलं
Jain Education International
For Private 19?rsanal Use Only
www.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122