Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 67
________________ (३) अनाशंसी - ‘एतेनोपदेशदानादिना श्रोतृभ्यः सकाशात् मम वस्त्रपात्रादीनां लाभो । भविष्यती'त्यादिरूपाऽऽशंसा तस्य नैव स्यात् । A (४) अविकत्थनः - हितं मितं पथ्यं च यो भाषते सोऽविकत्थनः । अमायी - परवञ्चनादिबुद्धिरहितः सन् यः सर्वत्र विश्वासभाजनं भवति सोऽमायी। एतादृशः स स्यान्न तु 'मनस्यन्यद् वचस्यन्यद्' इत्यादिस्वरूपः । स्थिरपरिपाटि:-यं ग्रन्थमाश्रित्य व्याख्यानं क्रियमाणं स्यात् तस्य ग्रन्थस्य सूत्रार्थादीनामपलापं यो न करोति स स्थिरपरिपाटिः ।। (७) ग्राह्यवाक्यः-यस्याऽऽज्ञा विना विकल्पं सर्वत्र सर्वेषां च ग्रहणीया स्यात् स ग्राह्यवाक्यः । (८) जितपर्षद् - राजसभादिषु प्रवचनादौ यः क्षोभं नाऽनुभवेत् सः । (९) जितनिद्रः - निद्रा तु प्रमादोऽस्ति । तां विजित्य सोऽप्रमत्तो भवेत् । एतादृशोऽप्रमत्त एव स्वशिष्यादीन् प्रमादादिनिवारणाय प्रबोधयितुं प्रभवति । * (१०) मध्यस्थः - आश्रितेषु शिष्यादिषु स समदृष्टिर्भवेत् । अर्थात् पक्षपातं न कदाप्याचरेत् । 4 (११) देशकालभावज्ञः - देशकालादिकमभिज्ञाय तदनुरूपं गुणवद्देशादावेव विहरेत् । । (१२) आसन्नलब्धप्रतिभः - यः प्रतिभासम्पन्नो भवति स परवादिनां शीघ्रमुत्तरदाने समर्थो भवति । (१३) नानाविधदेशभाषाज्ञः - भिन्न-भिन्नदेशीया मुमुक्षव आचार्यस्य शिष्यत्वमङ्गी कुर्वन्ति । एतद्गुणयुक्त एव तेभ्यः शास्त्रगतपदार्थानां बोधं सुखेन दातुमलं भवति । । ११ (१४) पञ्चविधाचारयुक्तः - य आचारवान् स एव श्रद्धेयवचनो भवति । । (१५) सूत्रार्थोभयविधिज्ञः - एतादृश एवोत्सर्गमार्गमपवादमार्ग वा सम्यगभिजानाति । सम्यक् चाऽवबोधयति । Jain Education International For Private Xersonal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122