Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
* (१६) उदाहरणहेतुकारणनयनिपुणः - ईदृशस्तु हेत्वादिपुरस्सरं स्वकथनं स्वमतं च
पुष्टं दृढं वा स्थापयितुं क्षमो भवति । 4 (१७) ग्राहणाकुशलः - अध्यापनकाले क्लिष्टानप्यागमादीनां गम्भीरपदार्थान् युक्त्या
प्रयुक्त्या च शिष्याणां कुशलतया ग्राहयेत् । Y (१८) स्वसमय-परसमयविद् - उभयविदेव स्वमतस्थापने परमतव्युदासे च समर्थो ।
भवति । (१९) गम्भीरः - श्रमादिजन्यखेदसहो भवेत् । (२०) दीप्तिमान् - परैरधृष्यः स्यात् । (२१) शिवः - शिवस्य-कल्याणस्य हेतुत्वात् स एव शिवः । यतः स यत्र वासं
कुर्यात् तत्र मार्याद्युपद्रवा उपशान्ता भवेयुः । (२२) सौम्यः - सर्वजनानामाह्लादकारि तस्य दर्शनं स्यात् । | (२३) गुणशतकलितः - प्रश्रयाद्यनेकैर्गुणैः परिवृतः स्यात् ।
एतादृशो गुणगणकलित आचार्य एव प्रवचनस्य-सिद्धान्तस्याऽनुयोगेऽर्थकथने * योग्यो भवति, नान्यः ।
एकस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । 'गतानुगतिको लोको न लोकः पारमार्थिकः ॥
APPAL
Jain Education International
For Privala
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122