Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
yamam FHMIRIKANRNMEnimamimg
अनुयोगाधिकारी मुनिरत्नकीर्तिविजयः ।
अधिकारित्वं तु प्रत्येक क्षेत्रेषु, व्यवहारेषु, कार्येषु चाऽनिवार्यमस्ति । प्रथम LS तावदधिकारिशब्दस्याऽर्थश्चिन्तनीयः, यतो वर्तमानकालेऽधिकारिशब्दस्य सत्ताधीशः पदस्थो
वाऽर्थः क्रियते । किन्तु नैष वास्तविकोऽर्थः । अत्र त्वधिकारी नाम योग्यो गुणवान् । न क्षमतावान् वेत्येव समुचितोऽर्थः । वास्तवमधिकारित्वं तु न पदेन सत्तया वैव ज्ञायते,
तत्तु कार्येण व्यवहारेण गुणगणेनैव च ज्ञायते । यस्मिन् यावती यादृशी च योग्यता क्षमता वा, यावन्तो यादृशाश्च गुणास्तदनुरूपे एव कार्ये स नियोक्तव्यः । ततोऽधिके यदि नियुज्यते तदा तत् कार्यं तज्जनस्य हितं चोभयोरपि हानिर्भवति । किञ्च स्वयमपि । स्वयोग्यता परीक्षणीया, तदनुरूपे एव च कार्ये प्रवर्तनीयम् । अन्यथा स्वपरोभयोरप्यहितमेव । A स्यात् । एवं च सामान्यव्यवहारेऽप्यधिकारित्वमपेक्षितं तर्हि शास्त्र-धर्मादीनां विषये
त्वधिकारित्वं प्रतिपदमपेक्ष्येतैवेत्यत्र नाऽस्ति काचिद् विप्रतिपत्तिः । अत्र तु यथा गुरुपदाय योग्यताऽनिवार्या तथा शिष्यत्वमपि न योग्यतामन्तरेण सिद्ध्यति, यथाऽध्यापनेऽधिकारित्वमपेक्षितं तथाऽध्ययनेऽपि । यतस्तत्र स्वपरयोरुभयोरपि हिताहिते सन्निहिते स्तः । लघ्व्यप्यनधिकारचेष्टाऽनर्थानां जननी भवति ।
अत्र तु, अनुयोगस्याऽधिकारिणं विषयीकृत्य किञ्चिद् वक्तव्यमस्ति । जैनागमशास्त्राणां टीकासु 'कोऽनुयोगस्याऽधिकारी' ? - इति कृत्वा तदर्थं निरूपणं कृतमस्ति । अनुयोगो नाम सिद्धान्तस्य तदर्थस्य च प्रतिपादनं-प्रवचनं वा ।
आगमादिशास्त्रसापेक्षं तथाऽऽत्महितमनुलक्ष्यैव यत्र कथनं भवति तदेव प्रवचनमित्यनेन PE सूच्यते । प्रवचनं न मनोरञ्जनसाधनम्, तत्त्वात्मकल्याणसाधनमस्ति । तत्र किंरूपं My गाम्भीर्यमधिकारित्वं चाऽऽवश्यकमित्यनुयोगस्याऽधिकारिणः प्ररूपणया ज्ञायते । शास्त्रेषु तु तावत्पर्यन्तमुक्तमस्ति यत्
सावज्जणवज्जाणं वयणाणं जो न याणइ विसेसं । वोत्तुं पि तस्स न खमं, किमंग पुण देसणं काउं ? ।।
Jain Education International
For Private Rersonal Use Only
www.jainelibrary.org

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122