Book Title: Nandanvan Kalpataru 2004 00 SrNo 12
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
.
.
60.
(तोटकवृत्तम्) प्रभवः प्रभवाः प्रभवः प्रभवाः, प्रकराः प्रमदाः प्रकराः प्रमदाः । प्रमनोभवदाः प्रमनोभवदाः,
त्रिशलाजवरा-स्त्रिशलाजवराः ॥८॥ व्याख्या :- प्रभवः - अखिलकर्मविनाशविधावीश्वराः । प्रकृष्टः = श्रेष्ठो जगति महत्तमो भवो जन्म येषां ते प्रभवाः । 'भवः सप्ताप्तिजन्मसु' - इत्यनेकार्थः ।
पुनः प्रभवः-अखिलजगज्जन्तुजीवातुभ्यो धर्मदातृत्वात् स्वामिनः, तेषां हिते - योगक्षेमावहत्वात् । तथा प्रगतो भवः-संसारो येभ्यस्ते प्रभवाः ।
प्रकराः इति - प्रकृष्टाः कराः - प्रभा येषामिति । भास्वद्भामण्डलमण्डना F इत्यर्थः।
प्रमदाः इति - प्रकृष्ट-सर्वतो मुख्यं महत् मं-ज्ञानमाध्यात्मिकमात्मानुभूतिपरम्, अतः सर्वभूतसत्त्वहितप्रदम्, तद् ददति - प्रयच्छन्तीति प्र-म-दाः ।
पुनः प्रकराः इति - प्रकृष्टं कं-सुखं-परमशमशर्म, तद् रान्ति-प्रयच्छन्ति ये इति प्र-क-राः । अतुच्छात्मसुखदायिन इत्यर्थः । 'रांक् दाने' इति हैमधातुपाठः । तथा प्रमदाः इति-प्रणष्टः - प्रकर्षणाऽपगतो मदो-गर्वो येभ्यस्ते प्रमदाः, दर्पापदीभूता इत्यर्थः ।
पुनः प्रकृष्टं- श्रेष्ठं मनः शुक्लध्यानत्वाद् येषां ते प्रमनसो - विशदचेतसः, तथा भवं-मोक्षं यच्छन्ति ये इति भवदा-मुक्तिदातारः । ततः प्रमनसश्च ते भवदाश्चेत्युभयपदप्रधान: - Pई कर्मधारयः - प्रमनोभवदाः ।
पुनः प्रगतं-प्रकर्षेणाऽपगतं सङ्क्लेशमूलकै रागादिभिर्मनो येषां ते प्रमनसः, नष्टरागरोषमनस्त्वात् । भवं-संसारं द्यन्ति-कर्तयन्ति-विनाशयन्ति इति भवदाः । ततः प्रमनसश्च ते भवदाश्चेति प्रमनोभवदाः । अथवा, १. श्रीहेमचन्द्राचार्यप्रणीतेऽनेकार्थसङ्ग्रहे द्वितीयकाण्डे भवशब्दः श्रेयः-इत्यर्थवाचकत्वेन निदिष्टोऽस्ति ।
"भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे० " ॥५३६॥ इति । तथाऽभिधानचिन्तामणौ देवाधिदेवकाण्डे 'श्रेयो निर्वाणं' इत्यपि निर्दिष्टम् ।
00:00
Jain Education International
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122